Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan
View full book text
________________
अनुसन्धान-५८
श्रतये किमकारयतां परस्परं दम्पती ची(चि)रान्मिलितौ? ।
२मोक्षपथप्रस्थितमतिः परिहरति च कीदृशीं जनताम्? ॥८१॥ अतत्वरताम् ।
१. कामाय शीघ्यभावयताम् । २. अतत्त्वे रता अतत्त्वरता, ताम् ॥८१।। 'हे नार्यः! किमकार्षुरुद्गतमुदो युष्मद्वराः काः किल?,
क्रुद्धः कामरिपुः स्मरं किमकरोदित्याह कामप्रिया? । इच्छ[न्] लाभमहं मनोगृहगतं रक्षामि शम्भुं सदा,
प्रीतः स्वं मतमूचुषे किल मुनिः कामाशिषं यच्छति? ॥८२।। उपायंसतनोतुभद्रते ।
१. उपायंसत- परिणीतवतः(न्तः) नः- अस्मान् । २. अतुभद्विनाशितवान्, हे रते!- कामप्रिये!, णभ तुभ हिंसायाम्, अद्यतनी दि, पुष्पादित्वादङि । ३. उपायं स महेश्वरस्तनोतु- विस्तारयतु, भद्रं ते- तव ॥८२॥
सरभसमभिपश्यन्ती किमकार्षीः कं मम त्वमिन्दुमुखि!? ।
'नयनगतिपदं कीदृक् पूजयतीत्यर्थमभिधत्ते? ॥८३।। [प]प्रथमंगजम् ।
१अ[प]प्रथम्- विस्तारितवती अङ्गजं- कामम् । २. न विद्य(द्ये)ते पकारात् प्रथमौ नकारौ यत्र तत् तथा, गश्च जो- जकारो यत्र तद्गजम्, ततो यजतीति भवति ॥८३॥
विधुन्तुदः प्राह रविं ग्रहीतुं कीदृक्षमाहुः स्मृतिवादिनो माम्? ।
का वा न दैवज्ञवरैः स्तुतेह प्रायेण कार्येषु शुभावहेषु? ॥८४॥ राहोनिशविरलगमम् । गतागतः ।
१. हे राहो!, निशि- रात्रौ अविरलो गमो यस्य स तथा तम् । निशाया निश् । २. मङ्गलरविअ(श)निहोरा । रविरादित्यः । होराशब्दः प्रत्येकम् ॥८४।।
अग्निज्वालादिसाम्याय यं प्रश्नं श्रीरुदीरयेत् ।
तेनैव समवर्णेन प्रापदुत्तममुत्तरम् ॥८५॥ कोपमानलाभाद्ये ।
का उपमाऽनलाभाद्ये वस्तुनि? । अनलस्येवाऽग्नेरिवाऽऽभा छाया

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47