Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 25
________________ फेब्रुआरी - २०१२ ५७ यस्याः सा कोपमानलाभाद्या । हे इ!- लक्ष्मि! । अयमत्र भावोऽग्निज्वालासदृशः कोपः, आदिशब्दादवाप्तः पर्वतादिस्ततः पर्वतसदृशो मानः, खञ्जनसदृशो ला(लो) भः । उत्तरेऽनुवचनेऽप्यादिशब्दान्माया तया सदृशा गोमूत्रिकाऽतीववक्रा ।।८५॥ 'कीदृक्षोऽहमिति ब्रवीति वरुण[:]? २काऽप्याह देवाङ्गना, हंहो! लुब्धक! को निहन्ति करिणश्रेणी वनान्याश्रिताम्? । ३कान्तन्यस्तपदं स्तने रमयति स्त्री किं विधिर्वक्त्यदः?, "किं अन्नोन्नविरोहवारणकए जंपंति धम्मत्थिणो? ॥८६॥ अवरोप्परंभेमच्छरोनखमो ॥ १. अपः पातीति अप्पः, सम्बोधने हेऽप्प!, अवरोऽवरदिग्वर्ती, अवरस्यां दिशि यतो वसति । २. हे रम्भे!- देवाङ्गने!, मम शरो मच्छरः । ३. नखम्, उर्ब्रह्मा, तस्य सम्बोधनम् [-ओ] । ४. हे (अवरोप्परं-) परस्परं भे- भवतां मच्छरो[-मत्सरः] न खमो- न युक्तः ॥८६॥ खड्गश्रियौ यमब्रवीत् प्रश्नं मुनिः किल स्वकम् । तत्रैव चाऽऽपदुत्तरं कामेसिसेविषायते ॥८७॥ का मे- मम, असिश्च खड्गं सा च लक्ष्मीः, तयोः सम्बोधनम्हेऽसिसे!, विषायते- विषवदाचरति? । हे यते!, कामे सिसेविषा- सेवितुमिच्छा ॥८७॥ 'कीदृग्भवेत् करक(ज)कर्तनकारिशस्त्रं? क्वाऽकारि किं रहसि केलिकलौ भवान्या? । कश्चित्तरुः प्रवयणश्च पृथग् विबोध्यौ, "किं वा मुनिर्वदति बुद्धभवस्वभावः ? ॥८८|| नखलुभवेकोपिशमितोत्र । १. नखान् लुनातीति नखलु । २. भवे- हरे, अकोपि- कुपितम् । ३. हे शमि!- वृक्षभेद!, हे तोत्र!- प्राजन! ४. नैव खलु- निश्चयेन भवेऽत्र कोऽपि शमितोऽत्र संसारे न कोऽपि शान्त इत्यर्थः ॥८८।। कुमुदैः श्रीमत् कश्चिद् गदपात्रं प्रश्नमाह यं भूमेः । तत्रैवोत्तरमलभत कैरवनिवहैरमामत्र ॥८९।।

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47