Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 21
________________ फेब्रुआरी - २०१२ 'तरुणेषु कीदृशं स्यात् कुर्वत् कीदृक् किमक्षि तरलाक्ष्याः? । २सा जोघ(व्व)णभयंती भणह कर केरिसं कुणइ? ॥७०॥ उवलद्धवलयं । १. किं कुर्वद्? वलत्, कीदृक् स्याद्? अवतीति ऊ- रक्षकं, 'स्वरो हस्व' इति ह्रस्वत्वम्, नपुंसकत्वादक्षिशब्दस्य, कीदृक् सत्? धवलयं- धवे लयो यस्य तत् । २. उपलब्धं वलयं यस्य स तथा तम् ॥७०॥ 'सत्यक्षमातिहर आह जयद्रथाजौ पार्थ! त्वदीयरथवाजिषु का किमाधात् ? । अप्पोवमाइ किर मच्छरिणो मुणंति किं रूत(प?)मिच्छसुयणं भण केरिसं ति ॥७१॥ सच्छमतुच्छरसरिच्छं । १. सत्- सत्यं, शम:- क्षमा, तुदतीति तुत् क्विप् - अतिः, सच्च शमश्च तुच्च सच्छमतुतः, तान् व्यतिहरति स तथा तस्य सम्बोधनम् - हे सच्छमतुच्छ!, शरास्तेषां सरिन्नदी धोरणिरिति यावत्, सा शं- सुखं, आधादिति सम्बन्धः । २. स्वच्छरूपं स्वच्छस्वभावं सन्तं प्राणिनमतुच्छः प्रभूतो मत्सरो यस्य स तथा तेन सदृशम् ॥७१॥ 'कीदृक्षः कथयत दौषिकापणः स्यात्? 'ना केन व्यरचि च पट्टसूत्ररागः? । ३क्षुद्रारिर्वदति किमुत्कटं जिगीषोः? "किं जघे शकरिपुणेति वक्ति रङ्कः ।।७२।। शाटकीकीटशा कण्टककटकम् शाकंकीकट । मन्थानकजातिः । १. शाटका विद्यन्ते यत्र शाटकी । २. कीटान श्यति | कीटश् तेन कीटशा । ३. हे कण्टक!- क्षुद्रारे!, कटकं- सैन्यम् । शा ट का | ४. शाकानां राज्ञां समूहः शाकम्, हे कीकट!- रङ्क! ॥७२॥ क 'ब्रह्मास्त्रगर्वितमरिं [र]णसीम्नि शत्रु-ख[ड्गा]क्षमं हरवितीर्णवरः किमाह? । 'कामी प्रियां भणति किं त्वरितं रतार्थी? वस्त्रं परास्यसह! सादयितेभबाधः ॥७३।। १. ओः ब्रह्मणोऽस्त्रं वस्त्रं; परस्याऽसिः- खड्गं(ड्गः), तं न सहते परास्यसहस्तस्य सम्बोधनम् – हे परास्यसह!, तत्प्रति सादयिता- खण्डनशीलः, इभबाधो, हर इभं बाधते इति । २. वस्त्रं- वसनं परास्य- परित्यज्य, सहसा

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47