Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 16
________________ अनुसन्धान-५८ विशदपञ्चमः । व्यस्त-द्विःसमस्तः । १. विशत्यः- प्रविशत्यः आपो यत्र तत् तथा। २. चमो अदने इत्यस्य । ३. विशदपञ्चमः- निर्मलपञ्चमरागः । ४. विगतशकारोच्चमं (विगतः शकारो दकाराच्च) पञ्चमः फकारो यत्र स तथा, 'या' इति भवति ॥५२।। वदति मुरजित् कुत्राता प्रिया वरुणस्य का?, २स च भणति यः क्रुद्धो नैव द्विषः परिरक्षति । दशमुखचमू[:] काकुस्थेन व्यधीयत कीदृशी? ३रवरवकवर्णाली कीदृग् ब्रवीति गतारतिम्? ॥५३।। अपरावणा । वर्द्धमानाक्षरजातिः । १. हे अ!- विष्णो!, तथा हे अपः!- कुत्सितं पातीति अपः, कुत्सितार्थे नञ्, अपरा- पश्चिमा । २. न परान् अवतीति अपरावस्तस्य सम्बोधनं- हे अपराव!, न विद्यते रावणो यस्यां सा तथा । ३. अकारात् पराऽपरा, वकारयोर्णी यत्र सा वणा, ततो [अ] रणरणक इति भवेत् ॥५३।। निःप्रस्वः (निःस्व:) प्राह लसद्विवेककुलजैः सम्यग् विधीयेत को?, मुग्धे! स्निग्धदृशं प्रिये! किमकरोः? ३किं वा तदोष्ठं व्यधाः? । ४लोकैः कोऽत्र निगद्यते [बलिवधूवैधव्यदीक्षागुरुः?,, "कीदृग् भूमिशुभासशब्द इह भो! विश्रम्भवाची भवेत्? ॥५४॥] [अतनवमदशमः । द्विळस्तसमस्तजातिः ।] [१. न विद्यते] ता- लक्ष्मीर्यस्याऽसावतस्तस्य सं० हे अत!, नवश्चासौ मदश्च स तथा, [तस्य] शमः । २. अतनवं- विस्तारितवती । ३. अदशम्अधरचुम्बनमकरवम् । ४. अ:- विष्णुः । ५. न विद्यते तकारान्नवमदशमौ यत्र स तथा, ततश्च 'विश्वास' इति भवति ॥५४॥ शशिना प्रमदपरवशः पृच्छति कः स्वर्गवासमधिवसति? । च्युतसत्पथाः किमाहुलौकिकसन्तो विषादपराः? ॥५५।। मयानंदवशनाकी । गतागतः । १. मसा- चन्द्रमसा आनन्दः स तथा तेन वशः परवशस्तस्य सम्बोधनम्, नाकी । [२. किनाशवदनं याम वयम् ।] 'उष्ट्रः पृच्छति किं चकार मदृते कस्मिन् शमीवृक्षकः?, कीदृक् सन्नधिकं स्वभक्ष्यविरहे दुःखी किलाऽहं ब्रुवे? ।

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47