Book Title: Prashnottar Shatam
Author(s): Ratnakirtivijay, Trailokyamandanvijay
Publisher: ZZ_Anusandhan

View full book text
Previous | Next

Page 10
________________ ४२ अनुसन्धान-५८ ४स्पर्द्धावद्भिरथाऽऽहवेषु सुभटैः कोऽन्योन्यमन्विष्यते?, “जैनाज्ञारतदान्तशान्तमनसः स्युः कीदृशाः साधवः ? ||३०|| अपराजयः । मञ्जरीसनाथजातिः । १. अयो- लोहम् । २. पयः- पानीयम् । ३. रायो - द्रव्याणि । ४. जय: । ५. न विद्यते परेषु आजि:- सङ्ग्रामो येषां तेऽपराजयः ॥३०॥ 'पापं पृच्छति विरतौ को धातुः? कीदृशः कृतकपक्षी? । उत्कण्ठयन्ति के वा विलसन्तो विरहिणीहृदयम् ? ॥३१॥ मलयमरुतः । १. हे मल!- पाप!, यम् । २. न विद्यते रुतं - शब्दितं यस्य स तथा । ३. मलयस्यपर्वतस्य मरुतो - वायवो मलयमरुतः - दक्षिणाऽनिलाः ॥३१॥ १केनोद्वहन्ति दयितं विरहे तरुण्यः ? प्राणैः श्रिया च सहितः परिपृच्छतीदम्। तार्क्ष्यस्य का नतिपदं ? सुखमत्र कीदृक् ?, * किं कुर्वताऽन्यवनितां किमकारि कान्ता ? ॥३२॥ मनसा सानम विनता तानवि नमता असाबि । मन्थानान्तरजातिः । १. मनसा- हृदयेन । २. आना:- प्राणाः मालक्ष्मीः ताभिः सह वर्त्तते इति सानमस्तस्य सम्बोधनं- हे सानम!, विनता स्त्री । ३. तनोर्भावस्तानवं, इमताच्चैत्यादिना अञ्, तानवं विद्यते यस्य तत्तानवि । ४. नमता - प्रणामं विदधता असावि- प्रेरिता । षू प्रेरणे इति ॥ ३२॥ नाभेयः । वर्द्धमानाक्षरजाति: । म ३ वि ३ न ५ ता ३ |सा ३ 'भवति चतुर्वर्गस्य प्रसाधने क इह पटुतरः प्रकट: ? । `पृच्छत्यङ्गावयवः कः पूज्यतमस्त्रिजगतोऽपि ? ॥३३॥ १. ना - पुमान् । २. हे नाभे! - अङ्गावयव!, नाभेयः - आद्यजिनः ||३३|| वैदिकर्वधि... 1. अस्य काव्यस्य मुद्रितपुस्तके (पुण्यसागरकृतटीकासहित, सं.- म. विनयसागर) ‘वैदिकविधिविशस्त....' इति श्लोकः ३४ क्रमाङ्के दृश्यते । स एवाऽत्र लिखितुमिष्टः स्यादिति सम्भाव्यते । ‘औषधं प्राह' इति श्लोकस्तत्र ३५ क्रमाङ्के ।

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47