Book Title: Prashnottar Shatam Author(s): Ratnakirtivijay, Trailokyamandanvijay Publisher: ZZ_Anusandhan View full book textPage 7
________________ फेब्रुआरी - २०१२ समगंसतासामया। १. समगंसत- गतवन्तः असा- अलक्ष्मीका मया- लक्ष्म्या । २. समगं एककालं सत्रासा मृगाः ।।१८।।। वसुदेवेन मुररिपुयै(W)हिंसाहेतुतां श्रियां पृष्टः । तेहिं विअ अक्खरेहिं से उत्तरं सिद्धं ॥१९॥ तायकमनयंतरयम् । ता- लक्ष्म्यः , हे अ!- कृष्ण!, कं पुरुषमनयन्त- नीतवत्यः रयं-क्षयं इति प्रश्नः । इदमुत्तरम्- हे तात!, क्रमनययोरन्तः क्रमनयान्तः, तत्र रतं पुमांसम् ॥१९॥ किं प्राहुः परमार्थतः कमृषयः? किं दुर्गमं वारिधेविद्या २कं न भजन्ति? रागिमिथुनं कीदृक् किमड़े स्मृतम्? । रक्षांसि स्पृहयन्ति किं? तनुमतां कीदृक् सुखार्थादिकं?, कीदृक् कर्षकलोकहर्षजनकं न व्योम वर्षास्वपि ॥२०॥ विगतजलदपटलम् । विपरीतमष्टदलकमलम् । १. विलं- विवरम् गलं- कण्ठम् । २. तलं- (द पर्यन्तम् । ३. जलं- जडं- मूर्खम् । ४. ललं-ईप्सितम्सविलासमित्यर्थः । ५. दलं- खण्डम् । ६. पलं- मांसम् । (ल) ७. टलं- चञ्चलम् । [८. विगतजलदपटलं- अपगतमेघवृन्दम्] ॥२०॥ १अभिसारिकाऽऽह किञ्चित्तरुणाः किं कुर्वतेऽत्र कं कस्याः? । समयन्ते । रतिसङ्गरे मृगदृशः किं किमकार्षीत् कथं कामी? ॥२१॥ अधरदलम् । १. समयन्ते- समागच्छन्ति समयं- सङ्केतम् ते- तव । २. अधरदलंओष्ठपुटं अधरत्- धृतवान्, अलं- अत्यर्थम् ॥२१॥ कामाः प्राहुरुमापते! तव रुषः प्रागत्र कीदृक् सती, का केषां किमकारि वारितनुदे रत्याः स्वचेतोमुदे? । पश्चादुद्भव-जानुसम्भवि-नरान् दैत्या-ऽन्त्यदंष्ट्रा-गजान्, मन्दं च क्रमशो मुजध्वनिरगात् कीदृक् क्व कस्मिन् सति? ॥२२॥ प लंPage Navigation
1 ... 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47