Book Title: Prashnottar Shatam Author(s): Ratnakirtivijay, Trailokyamandanvijay Publisher: ZZ_Anusandhan View full book textPage 6
________________ ३८ अनुसन्धान-५८ कीदृश्यो नाव इष्यन्ते तरीतुं वारि वारिधेः? । २अशिवध्वनिराख्याति तिर्यग्भेदं च कीदृशः? ॥१५॥ अपराजयः । १. न विद्यन्ते छिद्राणि यासु ता अपराजयः । २. अकारात् परो अच्- स्वर इकारः असौ अपराच्, तस्याऽयः- क्षयो यत्राऽशिवध्वनौ स तथा । ततोऽश्व इति भवति ॥१५॥ 'पीनकुचकुम्भलुभ्यन् किमाह भगिनीं स्मरातुरः कौलः? । हर-निकर-पथ-स्वः-सृष्टिवाचि ननर्गपदं कीदृग्? ॥१६।। भवमास्वसादिशस्तनम् । १. भव- स्तात्, मा निषेधे, स्वसा- भगिनी, दिश- प्रयच्छ स्तनं- कुचम् । २. शस्तौ- क्षिप्तौ नौ यत्र तत् शस्तनम् । भश्च वश्च मा च स्वश्च सश्च ते आदौ यस्य तत् भवमास्वसादि तच्च तत् शस्तनं च यथाक्रमं भर्ग-वर्ग-मार्ग-स्वर्गसर्ग इति ॥१६॥ नाभ्याम्भोजभुवः स्मरस्य च रुचो विस्तारयेति श्रियः, पत्युः प्रत्युपदेशनं कथमथोरे पत्नीष्यते कीदृशी? । इत्याख्यत् कमला, तथा कलियुगे कीदृक् कुराज्यस्थितिः?, "कीदृश्याऽहनि चण्डभास्करकरे नक्षत्रराज्याऽजनि? ॥१७॥ विभावितानया । गतागतद्विर्गतः । १. उश्च इश्च वी, व्योर्भा- दीप्तयः विभास्ता वितानय- विस्तारय, हे अ!विष्णो! २. या- पत्नी नता विभौ- भर्तरि, हे इ!- हे लक्ष्मि! । ३. विभावितःप्रकटितः अनयो यस्यां सा । ४. विगतो भाया वितानो- विस्तारो यस्याः सा तथा तया ॥१७॥ 'प्रभुमाश्रित्य श्रीदं किमकुर्वन् के कया समं लक्ष्मि!? । कह केरिसया के मरणमुवगया लुद्धयनिरुद्धा? ॥१८॥ 1. नास्तिकमतिः इति टि० । 2. नकारौ इति टि० । 3. किरणे इति टि० ।Page Navigation
1 ... 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47