Book Title: Paryant Aradhana Sutra
Author(s): Somchandrasuri
Publisher: Jinshasan Aradhana Trust
View full book text
________________
२४
શ્રી સમસરિવિચિત
चउविहकसायचत्ता, चउवयणा चउप्पयारधम्मकहा। चउगइदुहनिद्दलणा, अरहंता मज्झ ते सरणं ॥३२॥ जे अटुकम्ममुक्का, वरकेवलनाणमुणिअपरमत्था । अट्ठमयट्ठाणरहिआ, अरहंता मज्झ ते सरणं॥३३॥ भवखित्ते अरुहंता, भावारिप्पहणणे अरिहंता। जे तिजगपूअणिज्जा, अरहंता मज्झ ते सरणं ॥३४॥ _ 'चउतीसअइसयजुआ० सहोत्थादिचतुर्विंशदतिशययुताः, अशोकाद्यष्टमहापातिहार्यप्रतिपूर्णाः, तत्र प्रातिहार्याणि तीर्थकृतां केवलोत्पत्तेः सदा भवन्त्येव, सुरविहितसमवसरणाः तत्र समवसरणं वप्रत्रयादिसामग्रीकं कादाचित्कमेव भवतीति । अर्हन्ति त्रिभुवनकृतां पूजामित्यर्हन्तोऽतीतानागतवर्तमानकालभाविनस्ते मम शरणं भवन्त्विति गम्यम् ॥३१॥ . _ 'चउविहकसायचत्ता० त्यक्तचतुर्विधकषायाः, उपलक्षगानोकषायाणामपि त्यागः, क्तान्तस्य परनिपातः प्राकृतत्वात् । चतुर्वदनाश्चतूरूपधारिणः समवसरणे देवविकुर्वितरूपत्रयसद्भावात् । दानादिचतुःप्रकारधर्मकथाकथकाः योजननीहारिण्या वाण्या धर्मोपदेशदानेन लोकोपकारिणः नरकादिचतुर्गतिदुःखें नितरां दलयन्ति चूर्णयन्ति भव्यानां ये ते तथा । एवंविधा उक्तविशेषणा अर्हन्तस्ते मम शरणं भवन्त्विति शब्दार्थः ॥३२॥

Page Navigation
1 ... 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78