Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 174 श्रीयतिदिनचर्या अवचूर्णियुता पुट्विं पच्छा संथव 11 विज्जा 12 मंते य 13 चुन्न 14 जोगे य 15 / उप्पायणाइ दोसा सोलसमे मूलकम्मे य 16 // 77 // तत्रादौ धात्रीदोषः, धयन्ति-पिबन्ति तामिति धात्री, सा तु बालानां, तस्याः कर्म धात्रीकर्म करोति कारयति च 1 द्वितीयं दूतीकर्म, परस्परं सन्दिष्टार्थाभिधायिका स्त्री दूती तत्करणात् 2 तथा तृतीयं निमित्तं-अतीताद्यर्थसूचनं 3 चतुर्थं आजीवनं, आजीवो जात्यादीनां गृहस्थात्मसमानानामभिधानतः उपजीवनं 4 पञ्चमं वनीपकं-अभीष्टजनप्रशंसनं 5 षष्ठं चिकित्सा-रोगप्रतीकारः, चः समुच्चये 6, तथा क्रोधः-कोपः 7 मानो-गर्वः 8 माया-वञ्चना 9 लोभो-लुब्धता 10 चः समुच्चये, भवन्ति-जायन्ते दशैते-अनन्तरोक्ता: उत्पादनादोषाः इति योगः // 76 // ___ तथा एकादशं पूर्वपश्चात्संस्तवोद्भवं दानात् प्राक् पश्चाच्च दातुः श्लाघादि 11 तथा द्वादशं विद्या देवताधिष्ठिता ससाधना च 12 त्रयोदशं मन्त्रप्रयोगः मन्त्रो-देवाधिष्ठितो असाधनो वा अक्षररचनाविशेषः, चः समुच्चये 13 तथा चतुर्दशं चूर्णः, चूर्णो-नयनाञ्जनरूपः अदृश्यीकरणं वा 14 पञ्चदशं योगः - सौभाग्यादिहेतुर्द्रव्यसंयोगः, चः समुच्चये 15 एते उत्पादनादोषा:-दूषणानि षोडशः च पुनर्मूलकर्म-गर्भोत्पादादि वा इति गाथाद्वयार्थः // 77 // यदाहुः इय वुत्ता सुत्ताओ बत्तीस गवेसणेसणादोसा / गहणेसणदोसे दस लेसेण भणामि ते अ इमे // 78 // अथ प्रस्तावितान् दशैषणादोषान् नामतः सङ्ख्यातश्च दर्शयन्नाह
Loading... Page Navigation 1 ... 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246