Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 182 श्रीयतिदिनचर्या अवचूर्णियुता भस्मापनीय ज्वलनेन्धनाद्यानयनेन शीघ्र भोजयामि इति नित्यं तथा कुर्वन् चुल्हीभस्मापनयनात् जातश्वेतालिर्लोकेन श्वेताङ्गुलिरुच्यते 1 / बगोड्डायी यथा कश्चित् प्रियाभक्तः पत्न्या भणितः-तडागात् प्रत्यहं त्वयैव जलमानेयं, ततः स तत् कुर्वन् दिने लज्जमानः अन्धकारे तडागं याति, बकाश्चोड्डीयन्ते, इति लोकेन बकोड्डायीत्युच्यते 2 // अथ तीर्थस्नातो यथा कश्चित् कान्तायत्तदेहो याचितस्नानः पत्न्योचे-गच्छ सामग्री गृहीत्वा तत्रैव सरित्तीरे स्नात्वा शीघ्रमागच्छेः इति, स तत्र स्नानकरणात् लोकेन तीर्थस्नात इत्युच्यते 3 / अथ किङ्करो, यथा एकः प्रियानुरागी प्रातरुत्थायप्रिये ! किं करोमीत्याह, तया च षण्डणपिषणजलाद्यानयनादेशानां करणं, तेषु किं करोमीति भणनात् लोकेन किङ्कर इत्युच्यते 4 / हदनो, यथा एकः कुलपुत्रको भार्यादेशात् अर्भकानां क्रीडापनमूत्रोत्सर्गादिविधानतत्पोतकक्षालनकरणेन दुर्गन्धवस्त्रो लोकेन हदन इत्युच्यते 5 / अथ गृध्रावरिषी, यथा कश्चिद् भोजनोपविष्टो व्यञ्जनतक्रादियाचने निजमहिलया गृहकर्मव्यापृतया साधिक्षेपं गृहाणेत्युक्तो गृध्र इव रिंषन् 2 तदासन्नं यातीति लोकेन गृध्रावरिषीत्युच्यते 6, तदेते षड् गृहिणीवशा इति (तेनोक्तं-नाहं तथा, ततः) क्षुल्लक ऊचे-यद्येवं तर्हि घृतगुडान्विताः प्रभूताः सेवतिका देहि मे निजगृहात्, अथ उत्थाय कथितपत्नीवृत्तान्तं क्षुल्लकं द्वारे अवस्थाप्य गृहिणीं चाकार्यं व्यपदेशेन मालामारोप्य उत्सारितनिःश्रेणिकः (स ता ददौ) क्षुल्लकः स्वनासाङ्गलीघर्षदर्शनेन तस्यापि ज्ञापितनासाघर्षमाकार्य सेवतिका ललौ इत्येवं मानपिण्ड: 8 / ___ अथ मायापिण्डः, यत्र मायया वञ्चनेन परप्रतारणबुद्धयेतियावत् विविधरूपं नानारूपं नानाकारं काणकुब्जाद्यनेकस्वभावं वेषं-अङ्गादिसंस्थानमाहारकारणे - अशनादिलाभाय क्रियते स मायापिण्डः, यदाहुः - "मायाइ विविहरूवं (साहू) आहारकारणेण कुणइ" इति, मायायां
Loading... Page Navigation 1 ... 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246