Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 184 श्रीयतिदिनचर्या अवचूर्णियुता विहरन् तदलाभात् सञ्जातक्लिष्टाध्यवसायः केसरानेव ध्यायन् रजनीयामद्वयं बभ्राम, यावदेकेन श्रावकेण विज्ञाततद्भावेन प्रदत्तं मोदकं स्थालेन, भगवन् ! पुरिमा? ममास्ति पूर्णो न वेति पृष्टः, स दत्तोपयोगो यावदूर्ध्वमीक्षते तावच्चन्द्रदर्शनादर्धरात्रं विज्ञाय लज्जितः सम्यग्बोधितोऽस्मीति श्रावकं जल्पन् नगरान्तेऽतिक्रम्य मोदकान् विधिना परिष्ठापयन् शुद्धाध्यवसायवशात् केवलालोकमाप, यदाहुः"कोहे घेबरखवगो माणे सेवइयखुड्डगो नायं / मायाइ असाढभुई लोभे केसरीय साहुत्ति // 1 // " 10 // 89 // अथ संस्तवदोषं निरूपयति-संस्तवपिण्डः सः, कः ?, यत्र पूर्वस्मिन्-आदौ दातारं दानात् पूर्वकाले संस्तवनं पूर्वसंस्तवः तथा पश्चाद्-उत्तरकाले दानानन्तरं संस्तवनं पश्चात्संस्तवः, पूर्वं पिताजननीभ्रातृभगिन्यादिपूर्वसम्बन्धात् पूर्वसंस्तवः, तथा श्वशुरकश्वश्रूकलत्रपुत्रादीनामात्मपरयोर्वयस्तारुण्यरूपाद्यवस्थासदृशी-समानां निरूप्य ज्ञात्वा सम्बन्धपूर्वकं स्तौति स पश्चात्संस्तवः, स च पुनर्मूलतो गुणस्तुतिरूपः संस्तवश्च, तथा विद्यादिप्रयोज्ये पञ्च दोषा भवन्ति // विद्यादयः पञ्च दोषास्त्वमी // 90 // विद्या 1 मन्त्रं 2 अञ्जनं 3 चूर्णयोगः 4 रक्षादिश्च 5, तत्र देव्यधिष्ठिताक्षरपङ्क्तिर्विद्या जापहोमादि साध्या स्त्रीदेवता च, पिण्डार्थं दोषा यस्यां तत् तथा, मन्त्रो विद्याया विपर्ययलक्षणोऽसाधनः देवताधिष्ठितश्च, तस्यापि पिण्डार्थकरणाद् दोषः, तथा अञ्जनादयः अन्तर्धानादिफलाः तिरोधानवशीकरणादिकार्यसाधकाः 3 तथा चूर्णानि लोचनाञ्जनभालतिलकादीनि तथा सौभाग्यदौर्भाग्यकराः श्रीचन्दनधूपद्रव्यादिविशेषाः पादप्रलेपचरणलेपमुख्या योगाः स्युः, तथा तु पुनर्मूलकर्म रक्षादिमूलिकाभिः प्रसिद्धाभिः सौभाग्यार्थं रक्षाकरणमिदं मूलकर्म, एते
Loading... Page Navigation 1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246