Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 225
________________ 202 श्रीयतिदिनचर्या अवचूर्णियुता सङ्ग्रहः 3 प्रग्रहः 4 अवग्रह: 5 भाण्डं 6 उपकरणं 7 करणं 8 एते एकार्थाः, यदाहुः - "उवही 1 उवग्गहे 2 संगहे य 3 तह पग्गहु 4 ग्गहे चेव 5 / भंडग 6 उवगरणेऽवि य 7 करणेऽवि य 8 हुंति एगट्ठा // 1 // " तथा जिनकल्पिकानां द्वादशधा उपधिरुक्तः, तस्य जिनकल्पस्य जम्बूतो दशकव्यवच्छित्तौ विच्छेद एव, यदाहुः - "मण 1 परमोहि 2 पुलाए 3 आहारग 4 खवग 5 उवसमे 6 कप्पे 7 / संजमतिय 8 केवल 9 सिज्झणा य 10 जंबूम्मि वोच्छिन्ना // 1 // " __'मण'त्ति मनःपर्यायज्ञानं 1 परमावधिः केवलावधिविचारी 2 पुलाकलब्धिः, चुन्निज्जेत्तीत्यादिकः 3 आहारकतनुकरणलब्धिः 4 क्षपकश्रेणिः 5 उपशमश्रेणिः 6 जिनकल्पः 7 संयमत्रिकं परिहारविशुद्धिः 1 सूक्ष्मसम्परायः 2 यथाख्यातरूपं च 3, 8 केवलं 9 सिद्धिश्च 10 जम्बूस्वामिनि विच्छिन्नाः, तथा आर्यकाणां-साध्वीनां पात्रादीनि पञ्चविंशतिरूपाणि उपकरणानि उत्सर्गतो भवन्ति, आह च - "जिणा चउदसरूवाणि, थेरा चउदसरूविणो / अज्जाणं पन्नवीसं तु, अओ उड्ढे उवग्गहो // 1 // " // 121 // अथ आर्यकाणामुपकरणं दर्शयति - उवगरणाइं चउद्दस अचोलपट्टाई कमढगजुयाइं / अहियाइं समणीणवि भणियाणिवि हुँति ताणेवं // 122 // श्रमणीनां उपकरणानि चतुर्दश पूर्वोक्तान्येव भवन्ति, कथम्भू- . तानि?- अचोलपट्टानि चोलपट्टरहितानि, पुनः कथम्भूतानि ?कमढकयुतानि सहितानि, तान्येव पूर्वभणितानि वक्ष्यमाणप्रकारेणाधिकानि भवन्ति, एवं पञ्चविंशतिः // 122 / /

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246