Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 244
________________ श्रीयतिदिनचर्या अवचूर्णियुता 221 तत्र इति, सम्यक्त्वविशुद्धः-सम्यक्त्वनिर्मलो धर्मः मम सदासततं शरणं भवतु, तत् सम्यक्त्वं किं ?-यत्र देवोऽर्हन् गुरवः सुसाधवः जिनमतं च मम प्रमाणं इति लक्षणं सम्यक्त्वं यत्र धर्मे सः // 151 // पूर्वोक्तविधिना साधुः शयनं कथं कुरुते तदाह - इच्चाइ भणिय समरियनवकारो सुअइ अप्पनिदाए / समए जग्गिय एवं कुणइ मुणी पुणवि दिणचरियं // 152 // इत्यादि पूर्वोक्तविधिना भणित्वा तथा च स्मृतनमस्कारः अल्पनिद्रया स्तोकनिद्रया स्वपिति-शयनं करोति, तथा च समये प्रस्तावे जाग्रयित्वा मुनिः-साधुः पुनरपि दिनचर्या दिवसक्रियां करोति-विधत्ते // 152 // अथ दिनचर्यायाः फलमाह - इय सुद्धसमायारो बहुधम्ममणोरहुल्हसियचित्तो / तिन्नभवजलहिमप्पं मन्नंतो लहइ सिद्धिसुहं // 153 // इति-पूर्वोक्तविधिना शुद्धसमाचारो-निर्मलक्रियाविशेषः प्राणी बहुधर्ममनोरथोल्लसितचित्तः तीर्णभवजलधिमात्मानं मन्यमानः सिद्धिसुखं शिवसुखं लभते-प्राप्नोति // 153 // अथ ग्रन्थकृत् ग्रन्थमुपसंहरन् निजगुरुनामाङ्कितां गाथां चाह - सिरिकालियसूरीणं वंसुब्भवभावदेवसूरीहि / संकलिया दिणचरिया एसा थोवमइजइजोग्गा // 154 // श्रीकालिकसूरीणां-कालिकाचार्याणां वंशोद्भवैः-अन्वयोत्पन्नैः

Loading...

Page Navigation
1 ... 242 243 244 245 246