Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ श्रीयतिदिनचर्या अवचूर्णियुता 219 पातालप्रासादगतान् अनुसरामि, तथा श्रीसीमन्धरादीन् विंशति विहरमाणजिनान् वन्दे, तथा जम्बूद्वीपे महाविदेहक्षेत्रे सीमन्धर 1 जुगमन्धर 2 बाहु 3 सुबाहु 4 प्रभृतयश्चत्वारो जिना विहरमाणाः - विहारं कुर्वाणास्सन्ति, तथा धातकीखण्डे महाविदेहक्षेत्रयुग्मं तत्राष्टौ तीर्थङ्कराः सन्ति, यथा श्रीसुजात 1 श्रीस्वयंप्रभ 2 श्रीऋषभानन 3 श्रीअनन्तवीर्य 4 श्रीसूरप्रभ 5 श्रीविशाल 6 श्रीवज्रधर 7 श्रीचन्द्राननाः 8, तथा पुष्करवरद्वीपाढे महाविदेहक्षेत्रयुग्मं, तत्राप्यष्ट तीर्थङ्कराः, श्रीचन्द्रबाहु 1 श्रीभुजङ्गस्वामी 2 ईश्वर 3 श्रीनेमिप्रभ 4 श्रीवीरसेन 5 श्रीमहाभद्र 6 श्रीदेवयशाः 7 श्रीअजितवीर्यः 8, एवं विंशतिर्जिनाः // 145 // अथ संस्तारकस्थः अकृतनिद्रः पूर्वमुनीन् स्मरति तद्गाथायुग्मेनाह पुंडरियं बाहुबलिं भरहं सगरं सणंकुमारमुणि / विण्हुं गयसुकुमालं पसन्नमेअज्जसालिमुणिं // 146 // धन्नं दसन्नभई चिलाइपुत्तं उदायणं जंबुं / सुदरिसण थूलिभई अवंतिवइराइ मुणिचंदे // 147 // आदौ पुण्डरीकनामानं गणधरं, तदनु बाहुबलिं भरतं सगरंसगरनामानं सनत्कुमारं विष्णुकुमारं गयसुकुमारं-गयसुकुमालं प्रसन्नंप्रसन्नचंद्रं मेतार्यमुनि शालिमुणि-शालिभद्रं दृढकुमारं च मुनिम् // 146 // तथा धन्नाभिध-धन्नमुनि दशार्णभद्रं चिलातीपुत्रं उदायनं जम्बूस्वामिनं सुदर्शनं स्थूलभद्रं अवन्तिसुकुमारं वज्रादीन्-वज्रस्वामिप्रभृतीन् मुनीनहं वन्दे-नमस्करोमीति सर्वत्र योज्यम् // 147 //
Loading... Page Navigation 1 ... 240 241 242 243 244 245 246