Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ श्रीयतिदिनचर्या अवचूर्णियुता अणुजाणह संथारं बाहुवहाणेण वामपासेणं / कुक्कुडि पायपसारण अतरंत पमज्जए भूमि // 6 // संकोडिय संडासा उव्वटुंते य कायपडिलेहा / दव्वाईउवओगं उस्सासनिरंभणाऽऽलोए // 7 // इच्चाइ चिंतयंता निद्दामुक्खं करंति खणमित्तं / तत्थवि निब्भरनिहं पमायभीरू विवज्जति // 8 // " तथा विधिकृतसंस्तारकस्थितः चैत्यानि- शाश्वतचैत्यानि वन्दयित्वा जिनान् अपरान् अनुसरति // 143 // अथ अत्र कान् जिनान् अनुसरति तदाह - नंदीसर अट्ठावय सित्तुंजय उज्जयंत सम्मेयं / पमुहाई तित्थाई वंदेऽहं परमभत्तीए // 144 // तत्र तीर्थं स्मरणीयं अष्टमद्वीपे नन्दीश्वरवरे द्वीपे द्विपञ्चाशत् प्रासादाः, मतान्तरे विंशतिश्च, तत्र चतुःषष्टिशताष्टचत्वारिंशद् अशीत्यधिकचतुर्विंशशतं वा बिम्बनमस्कारकरणं, ततोऽष्टापदस्मरणं, स च अयोध्यातो द्वादशयोजनैः प्रमाणाङ्गलनिष्पन्नैः, तथाऽत्र अष्टापदनामा पर्वतः कोशलावासिजनक्रीडनस्थानं, तस्मिन् श्रीभरतचक्रिकारितं अष्टापदनाम चैत्यं शाश्वतं वर्तते, तस्मिंश्च चतुर्मुखे प्रासादे चत्वारः अष्टौ दश द्वौ च जिनेश्वरा वन्दनीयाः, यथा पूर्वद्वारे ऋषभाजितौ, दक्षिणदिग्द्वारे सम्भवादिपद्मप्रभान्ताश्चत्वारो जिनाः, तथा पश्चिमद्वारे सुपार्वाद्या अनन्तपर्यन्ता अष्टौ तीर्थङ्कराः, तथोत्तरदिग्द्वारे धर्माद्या वीरजिनपर्यन्ता दश जिनवरा विजयन्ते, तेषां स्मरणं विधेयं, इह श्रीउत्तराध्ययने अष्टादशाध्ययने भरतवक्तव्यतायां इदं भणितं, यदाहुः
Loading... Page Navigation 1 ... 238 239 240 241 242 243 244 245 246