________________ श्रीयतिदिनचर्या अवचूर्णियुता अणुजाणह संथारं बाहुवहाणेण वामपासेणं / कुक्कुडि पायपसारण अतरंत पमज्जए भूमि // 6 // संकोडिय संडासा उव्वटुंते य कायपडिलेहा / दव्वाईउवओगं उस्सासनिरंभणाऽऽलोए // 7 // इच्चाइ चिंतयंता निद्दामुक्खं करंति खणमित्तं / तत्थवि निब्भरनिहं पमायभीरू विवज्जति // 8 // " तथा विधिकृतसंस्तारकस्थितः चैत्यानि- शाश्वतचैत्यानि वन्दयित्वा जिनान् अपरान् अनुसरति // 143 // अथ अत्र कान् जिनान् अनुसरति तदाह - नंदीसर अट्ठावय सित्तुंजय उज्जयंत सम्मेयं / पमुहाई तित्थाई वंदेऽहं परमभत्तीए // 144 // तत्र तीर्थं स्मरणीयं अष्टमद्वीपे नन्दीश्वरवरे द्वीपे द्विपञ्चाशत् प्रासादाः, मतान्तरे विंशतिश्च, तत्र चतुःषष्टिशताष्टचत्वारिंशद् अशीत्यधिकचतुर्विंशशतं वा बिम्बनमस्कारकरणं, ततोऽष्टापदस्मरणं, स च अयोध्यातो द्वादशयोजनैः प्रमाणाङ्गलनिष्पन्नैः, तथाऽत्र अष्टापदनामा पर्वतः कोशलावासिजनक्रीडनस्थानं, तस्मिन् श्रीभरतचक्रिकारितं अष्टापदनाम चैत्यं शाश्वतं वर्तते, तस्मिंश्च चतुर्मुखे प्रासादे चत्वारः अष्टौ दश द्वौ च जिनेश्वरा वन्दनीयाः, यथा पूर्वद्वारे ऋषभाजितौ, दक्षिणदिग्द्वारे सम्भवादिपद्मप्रभान्ताश्चत्वारो जिनाः, तथा पश्चिमद्वारे सुपार्वाद्या अनन्तपर्यन्ता अष्टौ तीर्थङ्कराः, तथोत्तरदिग्द्वारे धर्माद्या वीरजिनपर्यन्ता दश जिनवरा विजयन्ते, तेषां स्मरणं विधेयं, इह श्रीउत्तराध्ययने अष्टादशाध्ययने भरतवक्तव्यतायां इदं भणितं, यदाहुः