Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ श्रीयतिदिनचर्या अवचूर्णियुता 211 यतिविशेषे यथार्हविनयाद्यकरणे 5 शय्याया-वसतेः अविधिना प्रमार्जनादौ स्त्र्यादिसंसक्तायां वा तस्यां वसने 6 कायिकोच्चारावस्थण्डिले अप्रतिलेखितस्थण्डिले वा कुर्वतः 7 समितयः-ईर्यादयः पञ्च 8 भावना:-अनित्याद्या द्वादश 9 गुप्तयः तिस्रः 10 आसां वितथाचरणे अनासेवने वा अतिचारः, अस्मिन् दैवसिककायोत्सर्गे एतानालोचयति // 135 // तथा पूर्वोक्तानतिचारानालोच्य पारिते च कायोत्सर्गे किं करोति तदाह - उज्जोअ पुत्ति वंदणमालोअण ठाण कमण पयसुत्तं / अब्भुट्टिय वंदणखामण वंदण आलियावणियं // 136 // तत्र कायोत्सर्गे पूर्णे उच्चैःस्वरेणाष्टाविंशत्युच्छासपर्यन्तं लोगस्सुज्जोअगरे इति निगदति, लोकोद्योतकरानित्यादि भणति, तद्भणिते च मुखवस्त्रिका प्रतिलिख्य वन्दनकं ददाति, तद्दत्त्वाऽऽलोचनं 'इच्छाकारेण संदिसह भगवन् ! दैवसिकमालोचयामि' तस्मिन्नालोचिते च 'ठाणे कमणे' इत्यादि भणति, 'सव्वस्सवि देवसिय' इति पर्यन्तं पठति, पश्चाद्गुरोर्वाक्यं 'पडिक्कमह' इति निशम्य उपविशति, तदनु सूत्रंप्रतिक्रमणसूत्रं 'करेमि भंते ! सामाइयं' इत्यादि कृत्वा भणति, तथा च परिपूर्णे सूत्रे अभ्युत्थितस्सन् 'अब्भुट्टिओ मि आराहणाए' इत्यतः अभ्युत्थितोऽस्म्याराधनार्थं 'वंदामि जिनान् चतुर्विंशति मिति पर्यन्तं पठित्वा पश्चाद्वन्दनकं क्षामणं च 'जं किंचि अपत्तियं' इत्यादि यत्किञ्चित् अप्रीतिकमिति कथयति, पुनर्वन्दनकं ददाति, इह सर्वत्र द्वादशावर्तवन्दनकं लघुक्षमाश्रमणपूर्वमेव बोद्धव्यं, कृतवन्दनः पश्चात्पादैरवग्रहाद् बहिनिःसृत्य 'आयरियउवज्झाए' इति गाथात्रयं पठति, केषाञ्चिन्मते न पठन्ति च // 136 //
Loading... Page Navigation 1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246