Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 235
________________ 212 श्रीयतिदिनचर्या अवचूर्णियुता तदनु प्रतिक्रमणे को विधिविधेयः इत्याशङ्क्याह - चरणाइतिउस्सग्गा तेसु उज्जोअचिंतणं कमसो / सुअदेवयाइथुइओ पुत्ति च्चिय वंदणा तिथुई // 137 // तदनु चारित्रादयः-चारित्रदर्शनज्ञानप्रभृतयः त्रयः कायोत्सर्गाः तेषु क्रमश:-अनुक्रमेण द्वौ एक एकः पृथक् उद्योतचिन्तनं, चतुर्विंशतिस्तवचिन्तनं, यदाहुः"दुन्नि य हुँति चरित्ते दंसणनाणे य हुन्ति (इक्क )इक्को य / सुयखित्तदेवयाए थुइ अंते पंचमंगलयं // 1 // " तदनु श्रुतदेवतादिस्तुतयः, ततश्च गणनिश्रायाः अस(ज्झा)या उडहावणिय कायोत्सर्गः, तस्मिन्नेकनमस्कारचिन्तनं, ततः पोतिकाप्रतिलेखनं ततः कृतिकर्म-वन्दनकं दत्ते, पश्चात् 'इच्छामो अणुसर्द्धि' इति भणित्वा जानुभ्यां स्थित्वा कृताञ्जलिर्नमोऽर्हत्सिद्धेति पूर्वकं स्तुतित्रयं पठति, तत्र साध्व्यस्तु नमोऽर्हत्सिद्धेति न पठन्ति, तदर्थश्चायं - इच्छामः-अभिलषामः अनुशास्ति-श्रीगुर्वाज्ञां प्रतिक्रमणं कार्यमित्येवंरूपां, तां च वयं कृतवन्तः स्वाभिलाषपूर्वकं, यदाहुः"पुत्ती वंदणदाणे भणन्ति भालयलमिलियकरजुयलो / इच्छामो अणुसद्धिं गुरुथुइगहणे थुई तिन्नि // 1 // " अत्र 'नमोऽस्तु वर्द्धमानाय' इत्यादि अभावे वा 'संसारदावानले'त्यादि स्तुतित्रयं पठन्ति // 137 // एतस्मादपि किं विधेयमित्याह - सक्कत्थय पायच्छित्त सज्झाओ इय दिणस्स पडिकमणं / तं पुण पक्खियमाईसु अल्लियावणियपज्जंते // 138 //

Loading...

Page Navigation
1 ... 233 234 235 236 237 238 239 240 241 242 243 244 245 246