Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 230
________________ 207 श्रीयतिदिनचर्या अवचूर्णियुता दुद्रुपसुसाणसावयविज्जलविसमेसु उदयमग्गेसु / लट्ठी सरीररक्खा तवसंजमसाहिणी भणिया // 130 // एकपर्वां-एककत्तलिकारूपां यष्टिं प्रशंसन्ति, पूर्वाचार्या इति शेषः, द्विपा-द्वे पर्वे-कत्तलिके यस्यां सा द्विपर्वा तां कलहकारिकां राटीकरणहेतुकां वदन्ति, त्रिपा-त्रीणि पर्वाणि यस्यां सा त्रिपर्वा तां त्रिपां लाभेन सम्पन्नां-लाभकारिका भणन्ति, चतुष्पां चत्वारि पर्वाणि यस्यां सा चतुष्पर्वा तां चतुष्पा मारणान्तिकां-प्राणत्यागकारिणी वदन्ति // 126 // तथा पञ्च पर्वाणि यस्यां सा पञ्चपर्वा यष्टिः-दण्डरूपा सा पथिमार्गे कलहनिवारिणी-राटीनिराकरिणी कथयन्ति, षट् पर्वाणि यस्यां सा षट्पर्वा तस्याः सकाशात् करग्रहणयोगात् आतङ्को, भयं भवतीत्यर्थः, सप्त पर्वाणि यस्यां सा सप्तपर्वा सा आरोगिका-रोगाभावरूपा // 127 // ____अष्टौ पर्वाणि यस्यां सा अष्टपर्वा असम्पत्-असम्पद्योगाद् यष्टिरपि असम्पत् उपचारात्, यथा दण्डयोगात् पुरुषोऽपि दण्डः, नव पर्वाणि यस्यां सा नवपर्वा यशःकारिका-यशःकर्तुं शीला, नवशब्दस्य अन्यार्थप्रतिपादकत्वात् सङ्ख्याशब्देन सह योगः अन्यथा (नवपर्वी) नवैवेत्यपि भवति, दश पर्वाणि यस्यां सा दशपर्वा तस्याः सकाशात् सर्वसम्पदो भवन्ति // 128 // __ अथ अशुभलक्षणां यष्टिं वर्जयेदित्याह-एवम्भूता यष्टिर्वर्जनीया, प्रयलेनेति योज्यं, कथम्भूता ?-वक्रा-असरला, कुब्जाकारेत्यर्थः, तथा कीटकभक्षिता-कीटकखादिता रेखादिना, फुल्लानि-शिखराणि यस्यां सा, तथैव दग्धा च यष्टिः, तावदूर्ध्वशुष्का-स्थानस्थितशुष्का, शुभलक्षणानि च यदाहुः

Loading...

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246