Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 210
________________ श्रीयतिदिनचर्या अवचूर्णियुता 187 प्रस्तावात् गर्भिण्या अष्टमासकगर्भवत्याः, एभिर्दोषैः साधुना दातुः सकाशात् पिण्डो न ग्राह्यः // 15 // ___ अथोन्मिश्राख्यं विवृणोति, अथ खण्डाधुचितं-योग्यं कणाद्यैः सचित्तमयोग्यं यत्र द्वे वस्तुनी एकीकृत्य साधवे दीयते तदुन्मिश्रं, अत्रैकीकरणं मीलनमात्रमेवावसेयं, अस्मिन्नपि दोषे चतुर्भङ्गी, यथा सचित्तेन सचित्तं मिश्रं 1 एवमचित्तेन सचित्तं 2 सचित्तेनाचित्तं 3 अचित्तेनाचित्तं 4, एष्वादिभङ्गत्रयं न कल्पते, चतुर्थः शुद्ध एव, अथ अपरिणतं-अपरिणताभिधानं यत्र दातव्यं वस्त्वेव द्रव्यमेव अप्रासुकं, अथवा एतदशनादि ग्राहकस्य साधोर्मनसि निर्दोषं परिणतं द्वितीयस्य सदोषं परिणतं, अथ लिप्तं मधुना, आदिना दधिक्षीरतक्रं, अनेन च विलिप्तेन लेपयुक्तेन यद्ददाति तल्लिप्तम् // 96 // अथ छबिताख्यमाविष्करोति-छदितं-छर्दिताभिधानं दूषणं स्यात्, तत् किं यदशनादि-भक्तपानप्रभृति परिशाटी-भूमौ परिपतदवयवं सद् आदीयते तत्, एतस्मिन् छदिते दोषे मिलिते सति पूर्वोक्ता द्विचत्वारिंशदोषा भवन्ति, अत्र वारकमन्त्रिकथानिदर्शनं पूर्वं व्याख्यातमेवास्ति / ते च यथासङ्ख्यं षोडश 2 दश गृहस्थयतितदुभयप्रभवाः, कोऽर्थः ?-षोडश उद्गमदोषाः गृहस्थप्रभवाः, गृहिणा प्रायेण तेषां क्रियमाणत्वात्, तथा साधुप्रभवाः षोडश, तेषां साधुनैव विधीयमानत्वात्, तथा गृहिसाधुजन्या दशैषणादोषाः, शङ्कितदोषस्य साधुभवत्वात् अपरिणतदोषस्य च साधुजन्यत्वात्, शेषाणां च गृहिप्रभवत्वात्, तथा पञ्च ग्रासैषणादोषाः तान् अग्रे वक्ष्यति, यदाहुः - इह "सोलस सोलस दस उ उग्गमउप्पायणेसणादोसा / गिहिसाहुउभयपभवा पंच उ घासेसणा होइ // 1 // " // 97 / /

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246