Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 193 श्रीयतिदिनचर्या अवचूर्णियुता यत्त्वागमे द्वात्रिंशत् कवलादिरूपं तेन हीनमधिकं वा भुङ्क्ते इत्यर्थः, तत्र पुरुषस्य सूत्रे कुक्कुट्यण्डकमात्रकवलापेक्षमाहारमानं, यदाहुः"कुक्कुडिअंडयमित्ता कवला बत्तीस भोअणपमाणे / रागेणासयंतो संगारं करइ सचरित्तं // 1 // " अर्थश्च - कुक्कुटी द्रव्यभावभेदाद् द्विधा, तत्र द्रव्यतः कुक्कुटीसाधोः शरीरं तन्मुखं अण्डकं तत्राक्षिकपोलादीनां विकृतिमनापाद्याहारः यद्वा कुक्कुटी-पक्षिणी अण्डकं प्रमाणं कवलस्य अतो, भावकुक्कुटी तु यावन्मात्रेण न न्यूनं नाप्यधिकं चोदरं स्यात् ज्ञानादीनां च वृद्धिः स्यात् तावन्मानं भक्तमिति, तथा तस्य द्वात्रिंशत्तमो भागः अण्डकं तन्मानः कवलः 4 यथा पुरुषस्य द्वात्रिंशत् कवलाः स्त्रियोऽष्टाविंशतिः नपुंसकस्य चतुर्विंशतिः, पुनरप्याहुः"बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलियाए अट्ठावीसं भवे कवला // 1 // " उत्तानार्थैव, अत्रोदरभागापेक्षं त्वेवं - "अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भागे / वायपवियारणट्ठा छब्भागं ऊणगं कुज्जा // 1 // विहिगहियं विहिभुत्तं इयभंगं जिणवरेहिणुन्नायं / सेसा नाणुन्नाया गहणे दिते य निज्जुहणा // 2 // " तथा - "बिदलं जिमिउं पच्छा पत्तं च मुहं च दोऽवि धोविज्जा / अहवा अन्नयपत्ते भुंजिज्जा गोरसं नियमा // 1 // " किञ्च -
Loading... Page Navigation 1 ... 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246