Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ 194 श्रीयतिदिनचर्या अवचूर्णियुता अत्थि अणंता जीवा जेहिं न पत्तो तसाइपरिणामो / तेऽवि अणंताणंता निगोअवासं अणुहवंति // 1 // तत्र त्रसाः बादराः द्वीन्द्रियादयः, अन्यच्च - ये निगोदवासमनुभवन्ति तेऽप्यनन्तास्सन्ति, तत्र केचन दुग्धदधितक्रादीनां मध्ये मुद्गादिद्विदलान्ने मिलिते कालान्तरेण त्रसजीवानामुत्पत्तिः एवं त्रिदिने दनि चलिते कुथितान्ने च, अत्र सर्वत्र सूक्ष्मत्रसजीवानामुत्पत्तिर्जानिभिदृष्टा, अथाङ्गारधूमलक्षणं दोषद्वयं व्यनक्ति-यत्र माधुर्यमाहारदातारं वा शंसन् भुङ्क्ते तदिह प्रवचने अङ्गारोपमचरणेन्धनकरणभावादङ्गारमिति कथ्यते, यच्चासुन्दरमितिकृत्वा निन्दन् द्विष्टोऽभ्यवहरति तस्य धूमोपमचरणेन्धनकरणभावात् धूममिति, आह च - "तं होइ सइंगालं जं आहारे मुच्छिओ संतो। तं पुण होइ सधूमं जं आहारेइ निंदतो // 1 // अथ षट्कारणाभावे भोजनं कुर्वतोऽकारणदोषं स्पष्टयति // 106 / / अथ तानि षट् कारणानि कानीत्याशङ्क्याह - वेयण वेयावच्चे इरियट्ठाए य संजमट्ठाए / तह पाणवत्तियाए छटुं पुण धम्मचिंताए // 107 // तत्र षण्णां कारणानां मध्ये आदौ वेदनाकारणं-क्षुद्वेदनोपशमनाय भुङ्क्ते, क्षुद्-बुभुक्षा तस्याः वेदना तद्रूपा वा वेदना क्षुद्वेदना तन्निवारणाय भुञ्जीत साधुः, यदाहुः-"णत्थि छुहाए सरिसा वियणा भुंजिज्ज तप्पसमण? / " त्ति 1 / तथा वैयावृत्त्यं-आचार्यादिप्रतिचरणं तद्रक्षार्थं तद्धानिनिवारणार्थं भुङ्क्ते साधुः, आह च - 'छाओ वेयावच्चं न तरड़ काउं अओ भुंजे / ' 'छाउ'त्ति स्फातो बुभुक्षितः, तथा ईर्यार्थं ईर्याशुद्धये, अत्र ईर्यां ईर्यासमिति वा विशोधयितुं-निर्मलीकर्तुं भुङ्क्ते
Loading... Page Navigation 1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246