Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ श्रीयतिदिनचर्या अवचूर्णियुता 195 साधुः, बुभुक्षितो हि ध्यामललोचनस्तां तथा कर्तुं न शक्नोति, तथा संयमार्थ-सप्तदशसंयमरक्षायै, तत्र संयमः-प्रत्युपेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारः तत्पालनार्थं, बुभुक्षितोऽपि तं कर्तुं न शक्नोति, तथा प्राणवृत्त्यर्थं-दशप्राणवर्तनाय, अथवा प्राणस्य-जीवितस्य रक्षार्थंपरिपालननिमित्तं यतिर्भुङ्क्ते, षष्ठं पुनः कारणं धर्मचिन्तार्थं-धर्मध्यानचिन्तायै, धर्मस्य ध्यानं धर्मध्यानं, एतदपि बुभुक्षितः कर्तुं न शक्नोति // 107 // अथ साधुर्भोजनं कुर्वन्नात्मानमेव तर्जयतीत्याशङ्क्याह - बायालीसेसण संकडंमि गहणंमि जीव ! न हु छलिओ। इम्हि जइ न छलिज्जसि भुंजंतो रागदोसेहिं // 108 // जीवति-प्राणिति दशभिः प्राणैः इति जीवः तदामन्त्रणं भो जीव!, द्विचत्वारिंशदोषाणां गहने सङ्कटे विषमस्थाने हि-निश्चितं न छलितोऽसि यदि चेदिदानी-अधुना भुञ्जानः-आहारं कुर्वन् रागद्वेषाभ्यां न छलिष्यसि // 108 // तथा आहारं कथं कुरुते इत्याशङ्क्याह - असुरसुरं अचबचबं अहुअमविलंबियं अपडिसाडि / अविकियमुहो जिमित्ता पक्खालिय पियइ पत्तजलं // 109 // ___ साधुरनया युक्त्या सुप्रणीतया वक्ष्यमाणया आत्मानं प्रीणाति तर्पयति, यथा असुरसुरं-सुरडकानकुर्वन् अचबचबं चबचबमकुर्वन् चर्बयति अहुअं-अविलम्बितं-अमन्थरं अपरिशाटि-परिशाटनारहितं अविकियं-अविकृतं विकाररहितं मुखं मनो यस्य तादृक् वाक्कायगुप्तो भुञ्जीत, अथो भुक्त्वा-जिमयित्वा त्रिः पात्रं प्रक्षाल्य पात्रजलं पिबति, यदाहुः
Loading... Page Navigation 1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246