________________ श्रीयतिदिनचर्या अवचूर्णियुता 195 साधुः, बुभुक्षितो हि ध्यामललोचनस्तां तथा कर्तुं न शक्नोति, तथा संयमार्थ-सप्तदशसंयमरक्षायै, तत्र संयमः-प्रत्युपेक्षणाप्रमार्जनादिलक्षणः साधुव्यापारः तत्पालनार्थं, बुभुक्षितोऽपि तं कर्तुं न शक्नोति, तथा प्राणवृत्त्यर्थं-दशप्राणवर्तनाय, अथवा प्राणस्य-जीवितस्य रक्षार्थंपरिपालननिमित्तं यतिर्भुङ्क्ते, षष्ठं पुनः कारणं धर्मचिन्तार्थं-धर्मध्यानचिन्तायै, धर्मस्य ध्यानं धर्मध्यानं, एतदपि बुभुक्षितः कर्तुं न शक्नोति // 107 // अथ साधुर्भोजनं कुर्वन्नात्मानमेव तर्जयतीत्याशङ्क्याह - बायालीसेसण संकडंमि गहणंमि जीव ! न हु छलिओ। इम्हि जइ न छलिज्जसि भुंजंतो रागदोसेहिं // 108 // जीवति-प्राणिति दशभिः प्राणैः इति जीवः तदामन्त्रणं भो जीव!, द्विचत्वारिंशदोषाणां गहने सङ्कटे विषमस्थाने हि-निश्चितं न छलितोऽसि यदि चेदिदानी-अधुना भुञ्जानः-आहारं कुर्वन् रागद्वेषाभ्यां न छलिष्यसि // 108 // तथा आहारं कथं कुरुते इत्याशङ्क्याह - असुरसुरं अचबचबं अहुअमविलंबियं अपडिसाडि / अविकियमुहो जिमित्ता पक्खालिय पियइ पत्तजलं // 109 // ___ साधुरनया युक्त्या सुप्रणीतया वक्ष्यमाणया आत्मानं प्रीणाति तर्पयति, यथा असुरसुरं-सुरडकानकुर्वन् अचबचबं चबचबमकुर्वन् चर्बयति अहुअं-अविलम्बितं-अमन्थरं अपरिशाटि-परिशाटनारहितं अविकियं-अविकृतं विकाररहितं मुखं मनो यस्य तादृक् वाक्कायगुप्तो भुञ्जीत, अथो भुक्त्वा-जिमयित्वा त्रिः पात्रं प्रक्षाल्य पात्रजलं पिबति, यदाहुः