Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust

View full book text
Previous | Next

Page 209
________________ 186 श्रीयतिदिनचर्या अवचूर्णियुता दयः स्थावरा एकेन्द्रियादयः तैर्युक्ते अचित्तेऽपि // 12 // अथ पिहिताख्यं दूषणं निरूपयति, तत्र सचित्ताचित्ताभ्यां स्थगितंआच्छादितं, एतच्-चतुर्भङ्ग, तद्यथा-सचित्तेन सचित्तं पिहितं 1 अचित्तेन सचित्तं 2 सचित्तेन अचित्तं 3 अचित्तेन अचित्तमिति 4, तत्र भङ्गत्रयमशुद्धं, चतुर्थे भने गुरुलघुरूपाश्चत्वारो भङ्गास्तेऽपि पिण्डविशुद्धे याः, ग्रन्थगौरवभयान्नेह लिखिताः, अथ संहृताख्यदोषमाह-तत् संहृताख्यं यत् पृथ्वीकायादौ भाजने अयोग्यं दानानुचित्तं मृत्तिकाजलतुषादि दातुमनभिप्रेतं वा करोटिकादेर्भाजनादपरेण रिक्तीकृतमातृकेणैव ददाति-देयं वस्तु साधुभ्यो यच्छति, गृहस्थ इति शेषः // 13 // अथ दायकाख्यदूषणं गाथायुग्मेन निरूपयति, तत्र यदि दातुर्गतमेवंविधेन वक्ष्यमाणेन दत्तं तद्दायकाख्यमित्यर्थः, केन ?-निगडितादिना, निगडितो-लोहमयादिपादबन्धनादितः कम्पमानाङ्गः पादुकारूढःकाष्ठादिमयोपानच्चटितः तैः, तथा बालस्थविरान्धपण्डकमत्तकुब्जकखञ्जज्वरितैरपि, तद्यथा-बालोऽव्यक्तो वा षष्टिकान्तर्वर्ती, स्थविरो वृद्धः, स च सप्ततेर्वर्षाणामुपरि, अन्धो दृष्टिरहितः, पण्डगो नपुंसको, मत्तो मदिराविह्वलः, कूणिक:-कुब्जः, खञ्जः-चरणरहितः, ज्वरितो-रोगवान्, तैः // 94 // तथा उदूखलमुशलाभ्यां या सचित्तं श्लक्ष्णयति खण्डीकरोति तया दीयमानं न गृह्यते, तथा या च पिनष्टि-शिलायां तिललवणजीरकादि मृद्नाति, तथा लोढकः कसिलोडिन्या कणकेन निष्कुलं करोति, पिञ्जक: रुतं पिञ्जनेन मृदुकरणपरः कर्तकः-पुणिकाभिः सूत्रकरणपरः, विलोडगाभिर्विलोडनं कराभ्यां पुनः पुनः रुतसूक्ष्मकरणमेभिरपि देयं न ग्राह्यं, तथा विलोडनं दध्यादिमथनं च, तथा वेलामासवत्याः कालः, रजस्वलाया इत्यर्थः, तथा च या स्त्री सबाला-स्तनोपजीविशिशुका तथा

Loading...

Page Navigation
1 ... 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246