________________ 184 श्रीयतिदिनचर्या अवचूर्णियुता विहरन् तदलाभात् सञ्जातक्लिष्टाध्यवसायः केसरानेव ध्यायन् रजनीयामद्वयं बभ्राम, यावदेकेन श्रावकेण विज्ञाततद्भावेन प्रदत्तं मोदकं स्थालेन, भगवन् ! पुरिमा? ममास्ति पूर्णो न वेति पृष्टः, स दत्तोपयोगो यावदूर्ध्वमीक्षते तावच्चन्द्रदर्शनादर्धरात्रं विज्ञाय लज्जितः सम्यग्बोधितोऽस्मीति श्रावकं जल्पन् नगरान्तेऽतिक्रम्य मोदकान् विधिना परिष्ठापयन् शुद्धाध्यवसायवशात् केवलालोकमाप, यदाहुः"कोहे घेबरखवगो माणे सेवइयखुड्डगो नायं / मायाइ असाढभुई लोभे केसरीय साहुत्ति // 1 // " 10 // 89 // अथ संस्तवदोषं निरूपयति-संस्तवपिण्डः सः, कः ?, यत्र पूर्वस्मिन्-आदौ दातारं दानात् पूर्वकाले संस्तवनं पूर्वसंस्तवः तथा पश्चाद्-उत्तरकाले दानानन्तरं संस्तवनं पश्चात्संस्तवः, पूर्वं पिताजननीभ्रातृभगिन्यादिपूर्वसम्बन्धात् पूर्वसंस्तवः, तथा श्वशुरकश्वश्रूकलत्रपुत्रादीनामात्मपरयोर्वयस्तारुण्यरूपाद्यवस्थासदृशी-समानां निरूप्य ज्ञात्वा सम्बन्धपूर्वकं स्तौति स पश्चात्संस्तवः, स च पुनर्मूलतो गुणस्तुतिरूपः संस्तवश्च, तथा विद्यादिप्रयोज्ये पञ्च दोषा भवन्ति // विद्यादयः पञ्च दोषास्त्वमी // 90 // विद्या 1 मन्त्रं 2 अञ्जनं 3 चूर्णयोगः 4 रक्षादिश्च 5, तत्र देव्यधिष्ठिताक्षरपङ्क्तिर्विद्या जापहोमादि साध्या स्त्रीदेवता च, पिण्डार्थं दोषा यस्यां तत् तथा, मन्त्रो विद्याया विपर्ययलक्षणोऽसाधनः देवताधिष्ठितश्च, तस्यापि पिण्डार्थकरणाद् दोषः, तथा अञ्जनादयः अन्तर्धानादिफलाः तिरोधानवशीकरणादिकार्यसाधकाः 3 तथा चूर्णानि लोचनाञ्जनभालतिलकादीनि तथा सौभाग्यदौर्भाग्यकराः श्रीचन्दनधूपद्रव्यादिविशेषाः पादप्रलेपचरणलेपमुख्या योगाः स्युः, तथा तु पुनर्मूलकर्म रक्षादिमूलिकाभिः प्रसिद्धाभिः सौभाग्यार्थं रक्षाकरणमिदं मूलकर्म, एते