________________ श्रीयतिदिनचर्या अवचूर्णियुता 183 आषाढभूतेर्निदर्शनं, यथा राजगृहे सिंहरथो राजा, अन्यदा तत्रागता धर्मरुचय आचार्याः, विविधज्ञानी आषाढभूतिविहरन् नटगृहं गतः, तत्रैकमोदकलाभादेष सूरीणामिति विचिन्त्य काणीभूय द्वितीयं जग्राह, असावुपाध्यायस्येति कुब्जरूपेण तृतीयमादात्, सङ्घाटिकसाधोरसाविति कुष्ठिकरूपेण चतुर्थमग्रहीत्, तच्च गवाक्षस्थनटेन दृष्टं, चिन्तितं-अहो भव्योऽसौ नटो भवतीति सङ्ग्रहार्थं तमाकार्य यथेष्टं मोदकांश्च दत्त्वा नित्यमत्रागन्तव्यमिति भणितवान्, अथ रूपपरावर्तादिलब्धिमानसौ तथोपचरणीयो यथा मत्पुत्रीरक्तः सदा अस्मद्गृहमायातीति नटेन शिक्षितं तथा पत्न्याः, स नित्यं गृहमागच्छन् तथा स्वपुत्र्या लोभितो यथा आमघट इवाम्भोभिभिन्नो यथा गुरूनवगणय्य मुक्तव्रतस्तां परिणीतवान्, तथा अस्य पश्यतो मद्यादिकं नासेव्यं (इति न्ययंसीत्) अन्यदा विविधनटावृतो नृपगृहे गत्वा तत्र दूतव्याक्षेपाद्वलितो, निर्व्यजनमिति वीक्षिता नटेन नटीस्तावत्पीतमद्याः, विसंस्थुलां स्वपत्नी विलोक्य विषयविरक्तो निर्गच्छन्नसौ नटीभिस्ताभिर्याचितो जीवनोपायः, सप्ताहेन श्रीभरतचक्रिनाटकं नव्यमकरोत्, तच्च राज्ञे निवेद्य लब्धाभरणपात्रादिसमुदायः स्वयं भरतीभूय चक्रोत्पत्तिदिग्विजयराज्याभिषेकादिचरितं नाटितवान् यावदादर्शगृहं गतः, तत्र चाङ्गुलीयकरत्नपातात् तयैव भरतभावनया लब्धकेवलालोको गृहीतद्रव्यलिङ्गो राजादीन् सम्बोध्य पात्रीकृतराजसुतपञ्चशत्याः प्रदत्तव्रतो भव्यो लोकमबोधयत्, एवं मोदकग्रहणात् स मायापिण्ड: 9 / अथ लोभपिण्डः, यत्र लोभेन-लम्पटतया भिक्षार्थं भिक्षाकुलेषु बहु-प्रभूतं भ्रमणं-अटनं सः, तत्र लोभे केसरकयतेरुदाहरणं, यथा चम्पायां यतिरेको मासक्षमणपारणे उत्सवदिने सिंहकेसरकमोदकाभिग्रही