________________ 182 श्रीयतिदिनचर्या अवचूर्णियुता भस्मापनीय ज्वलनेन्धनाद्यानयनेन शीघ्र भोजयामि इति नित्यं तथा कुर्वन् चुल्हीभस्मापनयनात् जातश्वेतालिर्लोकेन श्वेताङ्गुलिरुच्यते 1 / बगोड्डायी यथा कश्चित् प्रियाभक्तः पत्न्या भणितः-तडागात् प्रत्यहं त्वयैव जलमानेयं, ततः स तत् कुर्वन् दिने लज्जमानः अन्धकारे तडागं याति, बकाश्चोड्डीयन्ते, इति लोकेन बकोड्डायीत्युच्यते 2 // अथ तीर्थस्नातो यथा कश्चित् कान्तायत्तदेहो याचितस्नानः पत्न्योचे-गच्छ सामग्री गृहीत्वा तत्रैव सरित्तीरे स्नात्वा शीघ्रमागच्छेः इति, स तत्र स्नानकरणात् लोकेन तीर्थस्नात इत्युच्यते 3 / अथ किङ्करो, यथा एकः प्रियानुरागी प्रातरुत्थायप्रिये ! किं करोमीत्याह, तया च षण्डणपिषणजलाद्यानयनादेशानां करणं, तेषु किं करोमीति भणनात् लोकेन किङ्कर इत्युच्यते 4 / हदनो, यथा एकः कुलपुत्रको भार्यादेशात् अर्भकानां क्रीडापनमूत्रोत्सर्गादिविधानतत्पोतकक्षालनकरणेन दुर्गन्धवस्त्रो लोकेन हदन इत्युच्यते 5 / अथ गृध्रावरिषी, यथा कश्चिद् भोजनोपविष्टो व्यञ्जनतक्रादियाचने निजमहिलया गृहकर्मव्यापृतया साधिक्षेपं गृहाणेत्युक्तो गृध्र इव रिंषन् 2 तदासन्नं यातीति लोकेन गृध्रावरिषीत्युच्यते 6, तदेते षड् गृहिणीवशा इति (तेनोक्तं-नाहं तथा, ततः) क्षुल्लक ऊचे-यद्येवं तर्हि घृतगुडान्विताः प्रभूताः सेवतिका देहि मे निजगृहात्, अथ उत्थाय कथितपत्नीवृत्तान्तं क्षुल्लकं द्वारे अवस्थाप्य गृहिणीं चाकार्यं व्यपदेशेन मालामारोप्य उत्सारितनिःश्रेणिकः (स ता ददौ) क्षुल्लकः स्वनासाङ्गलीघर्षदर्शनेन तस्यापि ज्ञापितनासाघर्षमाकार्य सेवतिका ललौ इत्येवं मानपिण्ड: 8 / ___ अथ मायापिण्डः, यत्र मायया वञ्चनेन परप्रतारणबुद्धयेतियावत् विविधरूपं नानारूपं नानाकारं काणकुब्जाद्यनेकस्वभावं वेषं-अङ्गादिसंस्थानमाहारकारणे - अशनादिलाभाय क्रियते स मायापिण्डः, यदाहुः - "मायाइ विविहरूवं (साहू) आहारकारणेण कुणइ" इति, मायायां