Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ श्रीयतिदिनचर्या अवचूर्णियुता 179 यत्र मुनिः-साधुः धात्रीकर्म दूतीकर्म तृतीयं निमित्तं-निमित्तकरणं च यत्र भिक्षार्थ-आहारार्थं करोति तत्रैतद्दोषत्रयं स्यात्, तद्यथा-यत्र बालस्य धात्रीकर्माणि-धात्रीकार्याणि भिक्षुस्तनोति आत्मना परेण वा कारयति तानि धात्रीकर्माणि, तास्त्वागमे धात्र्यः पञ्चधा, यदाहुः - "बालस्स खीरमज्जणे"त्यादि, तत्र क्षीरधात्री 1 मज्जनधात्री 2 क्रीडोत्पाटनधात्री 3-4 अङ्कधात्री 5 / अथ द्वितीयं दूतीकर्म, यत्रान्योऽन्यस्य सन्दिष्टार्थं गुप्तं वा निरूप्यते तत्, यदाहुः"कहिय मिहो संदेसं पयडं छण्णं च सपरगामेसुं / जं कहइ लिंगजीवी स दूपिंडो अणत्थफलो // 1 // 2, तृतीयं निमित्तकर्म, यत्र भिक्षुर्भिक्षार्थमाहारवस्त्रपात्रादीनां लिप्सया निमित्तं-ज्ञानविशेषं लाभालाभं निरूपयति तत्, यदाहु:"जो पिंडाइनिमित्तं कहइ निमित्तं तिकालविसयंपि / लाभालाभसुहासुहजीवियमरणाइ सो पावो // 1 // 3, अथाजीवाख्यं चतुर्थं, यत्र यतिरात्मनः कुलं कथयंस्तथा परेषु शिल्पादि दर्शयन् पिण्डं गृह्णाति तत्, यदाहु:"जच्चाइधणाण पुरो तग्गुणमप्पंपि कहिय जं लहइ / सो जाइकुलगणकम्मसिप्पआजीवणापिंडो // 1 // 4, // 87 / / अथ पञ्चमं वनीपकाख्यं निरूपयति-विप्रादीनां भक्तेषुब्राह्मणादीनां वत्सलेषु जनेषु तत्सदृशं तद्भक्तं वाऽऽत्मानं प्रकटयन्स्पष्टीकुर्वन् पिण्डं गृह्णाति अभिलषति च तत्, यदाहुः - "पिंडट्ठा समणातिहिमाहणकिविणसुणगाइभत्ताणं / अप्पाणं तब्भत्त दंसेइ जं सो वणीमगुत्ति // 1 // " तत्र विप्राः-ब्राह्मणाः श्रमणाः निर्ग्रन्थबौद्धतापसपरिव्राजकादयश्च
Loading... Page Navigation 1 ... 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246