________________ श्रीयतिदिनचर्या अवचूर्णियुता 179 यत्र मुनिः-साधुः धात्रीकर्म दूतीकर्म तृतीयं निमित्तं-निमित्तकरणं च यत्र भिक्षार्थ-आहारार्थं करोति तत्रैतद्दोषत्रयं स्यात्, तद्यथा-यत्र बालस्य धात्रीकर्माणि-धात्रीकार्याणि भिक्षुस्तनोति आत्मना परेण वा कारयति तानि धात्रीकर्माणि, तास्त्वागमे धात्र्यः पञ्चधा, यदाहुः - "बालस्स खीरमज्जणे"त्यादि, तत्र क्षीरधात्री 1 मज्जनधात्री 2 क्रीडोत्पाटनधात्री 3-4 अङ्कधात्री 5 / अथ द्वितीयं दूतीकर्म, यत्रान्योऽन्यस्य सन्दिष्टार्थं गुप्तं वा निरूप्यते तत्, यदाहुः"कहिय मिहो संदेसं पयडं छण्णं च सपरगामेसुं / जं कहइ लिंगजीवी स दूपिंडो अणत्थफलो // 1 // 2, तृतीयं निमित्तकर्म, यत्र भिक्षुर्भिक्षार्थमाहारवस्त्रपात्रादीनां लिप्सया निमित्तं-ज्ञानविशेषं लाभालाभं निरूपयति तत्, यदाहु:"जो पिंडाइनिमित्तं कहइ निमित्तं तिकालविसयंपि / लाभालाभसुहासुहजीवियमरणाइ सो पावो // 1 // 3, अथाजीवाख्यं चतुर्थं, यत्र यतिरात्मनः कुलं कथयंस्तथा परेषु शिल्पादि दर्शयन् पिण्डं गृह्णाति तत्, यदाहु:"जच्चाइधणाण पुरो तग्गुणमप्पंपि कहिय जं लहइ / सो जाइकुलगणकम्मसिप्पआजीवणापिंडो // 1 // 4, // 87 / / अथ पञ्चमं वनीपकाख्यं निरूपयति-विप्रादीनां भक्तेषुब्राह्मणादीनां वत्सलेषु जनेषु तत्सदृशं तद्भक्तं वाऽऽत्मानं प्रकटयन्स्पष्टीकुर्वन् पिण्डं गृह्णाति अभिलषति च तत्, यदाहुः - "पिंडट्ठा समणातिहिमाहणकिविणसुणगाइभत्ताणं / अप्पाणं तब्भत्त दंसेइ जं सो वणीमगुत्ति // 1 // " तत्र विप्राः-ब्राह्मणाः श्रमणाः निर्ग्रन्थबौद्धतापसपरिव्राजकादयश्च