________________ 180 श्रीयतिदिनचर्या अवचूर्णियुता ते पञ्च प्रोक्ताः, यदाहुः "निग्गंथ 1 सक्क 2 तावस 3 गेरुअ 4 आजीव 5 पंचहा समणा। तमि य निग्गंथा ते जे जिणसासणभवा मुणिणो // 1 // सक्का य सुगयसिस्सा जे जडिला ते उ तावसा गीया / जे धाउरत्तवत्था तिदंडिणो गेरुआ ते उ // 2 // जे गोसालगमयमणुसरंति भन्नति ते उ आजीवा / समणत्तणं खु भवणे पंचविहं ता पसिद्धमिमं // 3 // " 5, अथ षष्ठं चिकित्साख्यं आविष्करोति-असौ चिकित्सापिण्डो भवति, असौ कः?-यं पिण्डं साधुरौषधकरणेन-भेषजविधानेन कथनेन वा लभते सः, तत्र सा चिकित्सा द्वेधा-सूक्ष्मा 1 बादरा च 2, यदाहुः - "भेसज्ज विज्जसूअण उवसमण वमणमाइकिरियं वा / आहारकारणेणवि दुविहं तिगिच्छं कुणइ मूढो // 1 // " 6 // 88 // क्रोधादिपिण्डस्वरूपं निरूपयति-क्रोधपिण्डः क्रोधयोगात् पिण्डोऽपि क्रोधः, यथा दण्डयोगात् पुरुषोऽपि दण्डः, तर्हि क्रोधपिण्डः, यदाहुः"विज्जातवप्पभावं निवाइधूअं बलं च से नाउं। मृणवि कोहफलं देति भया कोहपिंडो सो // 1 // " तत्र क्रोधे घृतपूरोपलक्षितस्य क्षपकतपस्विनो निदर्शनं, तच्चेदंहस्तकल्पे नगरे यतिरेको मासक्षपणपारणकदिने मृतकभक्तोत्सवे धिग्जातीयगृहं गतः, विप्रेभ्यो दीयमानेषु घृतपूरेषु चिरेणाप्यलब्धभिक्षः, कोपादन्यस्मिन् दास्यति इत्युक्त्वा निर्गतो, दैववशात् तत्र द्वितीयं मानुषं विपन्नं, साधुरपि तथैव तन्मासिकेऽपि गतः, तथैव दृष्ट्वा तदेवोक्त्वा पुनश्चलितो यावत् तृतीयं मृतं, साधुरपि तथैवान्यस्मिन् दास्यतीति