Book Title: Padarth Prakash 22 Yatidin Charya
Author(s): Vijayhemchandrasuri
Publisher: Sanghvi Ambalal Ratanchand Jain Dharmik Trust
View full book text ________________ श्रीयतिदिनचर्या अवचूर्णियुता 177 त्रयोदशधा भवति 2, अथ तृतीयं पूतिकर्म, अधःकर्मयुतं-सहितं पूतिअपवित्रं 3 अथ मिश्र-आत्मयोग्यं यतियोग्यं च कृतं 4 // 81 / / अथ पञ्चमं दूषणमाह-गृही यन्मुनियोग्यं पृथक् स्थापयति सा( स्थापना 5) एषा तु पुनः प्राभृतिका (प्रकरणस्योत्ष्वष्कणावष्वष्कणे) स्थापना प्राभृतिकेत्यर्थः 6 अथ षष्ठं (सप्तमं) प्रादुष्करणं, तद् द्विभेदं-प्रकटकरणं प्रकाशकरणं च, तत्र प्रकटकरणं साधूपयोगार्थं देयं वस्तु स्थितं निश्चलं द्रुतं शीघ्रं यत् प्रकटनं सान्धकारगृहात् बहिस्तात् करणं अथवा चुल्लस्य प्रकटकरणम् // 82 // ___ अथ द्वितीयं प्रकाशकरणाख्यं निरूपयति-यत्र दीपादिना यद्वस्तुनो गवाक्षकुड्यच्छिद्रादिकरणेन प्रकटनं तत् प्रकाशकरणाख्यं, अस्योभयथापि प्रादुष्करणं नाम, यत् सतिमिरे गृहे-सान्धकारगृहे अचक्षुर्विषयभिक्षाया अग्रहणात् श्रमणार्थमशनादीनां प्रकटनमिति योगः 7, अथ क्रीतमष्टमं, यत् देयवस्तुनः क्रयणं क्रीतेन-मूल्येन 8 // अथ नवमं प्रामित्यं यत् यतियोग्यमुच्छिन्नं गृहीत्वा ददाति 9 // 82 // अथ दशममाह - दशमं परावर्तितं यद् द्रव्यं दुर्गन्धं घृतादि दत्त्वा सुगन्धं घृतं गृहीत्वा ददाति वस्तुना-द्रव्येण घृतादिरूपेण वस्तु-घृतादिरूपं परावृत्त्य गृह्णाति तत् 10 / अथैकादशमभ्याहृतं यद् गृहिणा स्वपरग्रामादेः आदिशब्दाद् देशपाटकगृहादेरपि (आनीय) मुनये यद्दीयते 11 // 83 // अथ द्वादशं भणति - अथ द्वादशमुद्भिन्नं यत्र कुटादिषुघृततैलभाजनेषु तैलादिदानार्थं छगणमृत्तिकादि विलिप्तं उद्भिद्य-उद्घाट्य ददाति तद् उद्भिन्नं 12 / अथ त्रयोदशं मालापहृतं तत्र माले-मञ्चे गृहोपरितनभागे शिक्ककादिषु च भूमिगृहादिषु वा कुम्भीकोष्ठकादिषु च पाणिउत्पाटनात् अधोबाहुप्रसारणाच्च यद् दीयते तत् 13 / अथ चतुर्दशमाच्छेद्य-उद्दाल्य भृत्यादिभ्यः सकाशात् बलादपि गृहीत्वा ददाति
Loading... Page Navigation 1 ... 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246