________________ श्रीयतिदिनचर्या अवचूर्णियुता 177 त्रयोदशधा भवति 2, अथ तृतीयं पूतिकर्म, अधःकर्मयुतं-सहितं पूतिअपवित्रं 3 अथ मिश्र-आत्मयोग्यं यतियोग्यं च कृतं 4 // 81 / / अथ पञ्चमं दूषणमाह-गृही यन्मुनियोग्यं पृथक् स्थापयति सा( स्थापना 5) एषा तु पुनः प्राभृतिका (प्रकरणस्योत्ष्वष्कणावष्वष्कणे) स्थापना प्राभृतिकेत्यर्थः 6 अथ षष्ठं (सप्तमं) प्रादुष्करणं, तद् द्विभेदं-प्रकटकरणं प्रकाशकरणं च, तत्र प्रकटकरणं साधूपयोगार्थं देयं वस्तु स्थितं निश्चलं द्रुतं शीघ्रं यत् प्रकटनं सान्धकारगृहात् बहिस्तात् करणं अथवा चुल्लस्य प्रकटकरणम् // 82 // ___ अथ द्वितीयं प्रकाशकरणाख्यं निरूपयति-यत्र दीपादिना यद्वस्तुनो गवाक्षकुड्यच्छिद्रादिकरणेन प्रकटनं तत् प्रकाशकरणाख्यं, अस्योभयथापि प्रादुष्करणं नाम, यत् सतिमिरे गृहे-सान्धकारगृहे अचक्षुर्विषयभिक्षाया अग्रहणात् श्रमणार्थमशनादीनां प्रकटनमिति योगः 7, अथ क्रीतमष्टमं, यत् देयवस्तुनः क्रयणं क्रीतेन-मूल्येन 8 // अथ नवमं प्रामित्यं यत् यतियोग्यमुच्छिन्नं गृहीत्वा ददाति 9 // 82 // अथ दशममाह - दशमं परावर्तितं यद् द्रव्यं दुर्गन्धं घृतादि दत्त्वा सुगन्धं घृतं गृहीत्वा ददाति वस्तुना-द्रव्येण घृतादिरूपेण वस्तु-घृतादिरूपं परावृत्त्य गृह्णाति तत् 10 / अथैकादशमभ्याहृतं यद् गृहिणा स्वपरग्रामादेः आदिशब्दाद् देशपाटकगृहादेरपि (आनीय) मुनये यद्दीयते 11 // 83 // अथ द्वादशं भणति - अथ द्वादशमुद्भिन्नं यत्र कुटादिषुघृततैलभाजनेषु तैलादिदानार्थं छगणमृत्तिकादि विलिप्तं उद्भिद्य-उद्घाट्य ददाति तद् उद्भिन्नं 12 / अथ त्रयोदशं मालापहृतं तत्र माले-मञ्चे गृहोपरितनभागे शिक्ककादिषु च भूमिगृहादिषु वा कुम्भीकोष्ठकादिषु च पाणिउत्पाटनात् अधोबाहुप्रसारणाच्च यद् दीयते तत् 13 / अथ चतुर्दशमाच्छेद्य-उद्दाल्य भृत्यादिभ्यः सकाशात् बलादपि गृहीत्वा ददाति