________________
श्री ओघनियुक्तिः द्रोणीया
वृत्तिः
॥११५॥
भागो ह्रियते, लब्धेऽङ्गुलानि, द्वादशाङ्गुलैः पादः, यावता भवति उत्तरत्ति मकरदिने ४ पादाः । ( दाहिणत्ति - कर्कदिने २ पादौ शेषेषु पदशुद्धिप्रक्षेपौ ) व्यवहारतोऽधुना पौरूषीप्रमाणकालप्रतिपादनायाह-
आसाढे मासे दो पया, पोसे मासे चउप्पया । चित्तासोएमु मासेसु, तिपया हवइ पोरिसी ॥ २८३ ॥ आषाढ मासे पौर्णमास्यां द्विपदा पौरुषी भवति, पदं च द्वादशाङ्गुलं ग्राह्यं, पौषे मासे पौर्णमास्यां चतुष्पदा पौरुषी भवति, तथा चैत्राश्वयुजपौर्णमास्यां त्रिपदा पौरुषी भवति ॥ अधुना कियती वृद्धिः कियत्सु दिनेषु ? कियती वा हानिरित्येतत्प्रतिपादयन्नाहअंगुलं सत्तर तेर्ण, पक्खेणं तु दुअंगुलं । वहुए हायए वाचि, मासेणं चउरंगुलं ॥ २८४ ॥
आषाढ पौर्णमास्या आरभ्याङ्गुलं सप्तरात्रेण वर्द्धते, पक्षेण तु अङ्गुलद्वयं वर्धते, तथा मासेनाङ्गुलचतुष्टयं वर्द्धते, इयं च वृद्धिरुत्तरोत्तरं तावन्नेया यावत्पौषमास पौर्णमास्यां पदचतुष्टयेन पौरुषी जायते, हानिरपि पौर्णमास्याः परत एवमेव च द्रष्टव्या यदुताङ्गुलं सप्तरात्रेणापहियते, पक्षेणाङ्गुलद्वयं, मासेनाङ्गुलचतुष्टयं, एवमियं हानिरुत्तरोत्तरं तावन्नेया यावदाषाढपौर्णमास्यां द्विपदा पौरुषी जायेत । स्थापना चेयम् - आसाढ पुण्णिमाए पद २ पौरुषी, सावणपुण्णिमाए पद २ अंगुल ४, | भद्दवय पुण्णिमाए पद २ अंगुल ८, आसोयपुण्णिमाए पद ३, कत्तियपुन्निमाए पद ३ अंगुल ४, मग्गसिरपुण्णिमाए पद ३ अंगुल ८, पोसपुण्णिमाए पद ४, एत्तिअं जाव वुड्डी होइ । माहपुण्णिमाए पद ३ अंगुल ८ फग्गुणपुण्णिमाए पद ३ अंगुल ४, चेचपुण्णिमाए पद ३, वइसाहपुन्निमाए पद २ अंगुल ८, ज्येष्ठपुन्निमाए पद २ अंगुल ४, आसाढपुन्निमाए पद २, इत्तियं जाव हाणी । भावत्थो इमो - सावणस्स पढमदिवसाओ आरब्भ वुड्डी जदा भवति तदा दिवसे दिवसे अंगुलस्स
.
पौरुषी रूषणा नि. २८१-२८४
॥११५॥