Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 430
________________ श्रीओघनियुक्तिः द्रोणीया वृत्तिः ॥२१॥ SARASOLARISAUSAISRISALA कुलप्रमाणकाश्च दनिका भवन्ति, 'एगतरं हीणमहियं वा' एकतरं दण्डकस्य दशिकानां वा कदाचिद्धीनं प्रमाणतो भवति कदाचिच्चाधिकं भवति, सर्वथा समुदायतस्तद्वात्रिंशदङ्गलं कर्त्तव्यम् । तच्च किम्मयं भवति ? इत्यत आह उणियं उट्टियं वावि, कंबलं पायपुंच्छणं । तिपरीयल्लमणिस्सहूं, रयहरणं धारए एगं ॥७०९॥ तद्रजोहरणं कदाचिदूर्णामयं भवति कदाचिच्चोष्ट्री'मयं भवति कदाचित्कम्बलमयं भवति, पादपुञ्छनशब्देन रजोहरणमेव गृह्यते, तदेवंगुणं भवति, 'त्तिपरियल्लं'ति त्रिःपरिवर्त्त-त्रयः परावर्तकाः-वेष्टनानि यथा भवन्ति तथा कर्त्तव्यम्, 'अणिसिट्ठति मृदु कर्त्तव्यं, तदेवंगुणं रजोहरणं धारयेदेकमेवेति । तेन च किं प्रयोजनमित्यत आह आयाणे निक्खेवे ठाणनिसीयण तुयदृसंकोए । पुवं पमजणट्ठा लिंगट्ठा चेव रयहरणं ॥ ७१०॥ आदान-ग्रहणं तत्र प्रमार्जनार्थ रजोहरणं गृह्यते निक्षेपो-न्यासः स्थान-कायोत्सर्गः निषीदनम्-उपवेशनं तुयट्टणंशयनं सङ्कोचनं-जानुसंदंशकादेः, एतानि पूर्व प्रमृज्य क्रियन्ते अतः पूर्व प्रमार्जनार्थ रजोहरणग्रहणं क्रियते । लिङ्गमिति च कृत्वा रजोहरणधारणं क्रियत इति । इदानीं मुखवस्त्रिकाप्रमाणप्रतिपादनायाह चउरंगुलं विहत्थी एवं मुहणंतगस्स उ पमाणं । बितियं मुहप्पमाणं गणणपमाणेण एकेकं ॥ ७११॥ चत्वार्यङ्गलानि वितस्तिश्चेति, एतच्चतुरस्र मुखानन्तकस्य प्रमाणम् , अथवा इदं द्वितीयं प्रमाणं, यदुत मुखप्रमाणं तव्यं मुहर्णतयं, एतदुक्तं भवति-वसतिप्रमार्जनादौ यथा मुखं प्रच्छाद्यते कृकाटिकापृष्ठतश्च यथा ग्रन्थि तुं शक्यते | रजोहरणस्वरूपप्रमा| णप्रयोजनानि नि. ७०७७१० भा-३२२ मुखानन्तकमान न.११ ॥२१४॥

Loading...

Page Navigation
1 ... 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456