Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
CASSEMCALCULAMSALMERS
★ बद्धमन्यस्मिन् समये क्षपयति । यश्च प्रमत्तः पुरुषस्तस्यैवंविधस्य संबन्धिनं 'योगं कायादि 'प्रतीत्य' प्राप्य ये सत्त्वा
व्यापाद्यन्ते 'तेषां' सत्त्वानां 'नियमाद्' अवश्यं 'सः' पुरुषो हिंसको भवति तस्मात्प्रमत्तताभाजि कर्मबन्धकारणानि ।। येऽपि सत्त्वा न व्यापाद्यन्ते तेषामप्यसौ नियमाद्धिंसकः, कथं ?, 'सावज्जो उपयोगेण' सहावचेन वर्तत इति सावद्यः-४ | सपाप इत्यर्थः, ततश्च सावद्यो यतः 'प्रयोगेण' कायादिना 'सर्वभावेन' सर्वैः कायवाड्मनोभिः, अतः अव्यापादयन्नपि व्यापादक एवासौ पुरुषः सपापयोगत्वादिति । यतश्चैवमतः
आया चेव अहिंसा आया हिंसत्ति निच्छओ एसो।जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो ॥७५४ ॥ | आत्मैवाहिंसा आत्मैव हिंसा इत्ययं निश्चय इत्यर्थः। कथमसावहिंसकः कथं वा हिंसकः ? इत्यत आह-जो होइ' इत्यादि, यो भवति 'अप्रमत्तः' प्रयत्नवानित्यर्थः स खल्वेवंविधोऽहिंसको भवति, 'हिंसओ इयरोत्ति 'इतर' प्रमत्तो यः स हिंसको भवतीत्ययं परमार्थः । अथवाऽनेनाभिप्रायेणेयं गाथा व्याख्यायते, तत्र नैगमस्य जीवेष्वजीवेषु च हिंसा, तथा च वक्तारो लोके दृष्टाः, यदुत जीवोऽनेन हिंसितो-विनाशितः, तथा घटोऽनेन हिंसितो-विनाशितः, ततश्च सर्वत्र हिंसाशब्दानुगमात् जीवेष्वजीवेषु च हिंसा नैगमस्य, अहिंसाऽप्येवमेवेति, सङ्ग्रहव्यवहारयोः षट्सु जीवनिकायेषु हिंसा, स
वहश्चात्र देशग्राही द्रष्टव्यः सामान्यरूपश्च नैगमान्तर्भावी, व्यवहारश्च स्थूलविशेषग्राही लोकव्यवहरणशीलश्चायं, तथा है चाह-लोको बाहुल्येन षट्स्वेव जीवनिकायेषु हिंसामिच्छतीति, ऋजुसूत्रश्च प्रत्येकं प्रत्येकं जीवे जीवे हिंसां व्यतिरिक्तामि
च्छतीति, शब्दसमभिरूढैवंभूताश्च नया आत्मैवाहिंसा आत्मैव हिंसेति, एतदभिप्रायेणैवाह-'आया चेव' इत्यादि, आत्मैवा

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456