Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
इति । किञ्च – 'रक्तः' आहाराद्यर्थं सिंहादिः, 'द्विष्टः' सर्पादिः, 'मूढः' वैदिकादिः, स एवंविधो रक्तो वा द्विष्टो वा मूढो वा यं 'प्रयोगं' कायादिकं प्रयुङ्क्ते तत्र हिंसाऽपि जायते, अपिशब्दादनृतादि चोपजायते, अथवा हिंसाऽप्येवं रक्ता - दिभावेनोपजायते न तु हिंसामात्रेणेति वक्ष्यति, तस्मात्स हिंसको भवति यो रक्तादिभावयुक्त इति, न च हिंसयैव हिंसको भवति, तथा चाह - न च हिंसामात्रेण सावद्येनापि हिंसको भवति, कुतः ?, शुद्धस्य पुरुषस्य कर्मसंप्राप्तिरफला भणिता जिनवरैरिति । किश्च -
जा जयमाणस्स भवे विराहणा सुत्तविहिसमग्गस्स । सा होइ निज्जरफला अज्झत्थविसोहिजुत्तस्स ॥ ७५९ ॥ परमरहस्समिसीणं समप्तगणिपिंडगझरितसाराणं । परिणामियं पमाणं निच्छयमवलंबमाणाणं ॥ ७६० ॥ निच्छ्यमवलंयंता निच्छयओ निच्छयं अयाणंता । नासंति चरणकरणं बाहिरकरणालसा केइ || ७६१ ।।
या विराधना यतमानस्य भवेत्, किंविशिष्टस्य सतः ? - सूत्रविधिना समग्रस्य - युक्तस्य गीतार्थस्येत्यर्थः, तस्यैवंविधस्य या भवति विराधना सा निर्जराफला भवति, एतदुक्तं भवति - एकस्मिन् समये बद्धं कर्मान्यस्मिन् समये क्षपयतीति, किंवि| शिष्टस्य १ - अध्यात्मविशोधियुक्तस्य' विशुद्धभावस्येत्यर्थः । किञ्च, -- परमं - प्रधानमिदं रहस्यं तत्त्वं, केषाम् ? - 'ऋषीणां सुविहितानां किंविशिष्टानां ? - समग्रं च तद् गणिपिटंगं च समग्रगणिपिटकं तस्य क्षरितः पतितः सारः - प्राधान्यं यैस्ते सयंत्रगणिपिटक क्षरितसारास्तेषामिदं रहस्यं, यदुत 'पारिणामिकं प्रमाणं' परिणामे भवं पारिणामिकं, शुद्धोऽशुद्धश्च चित्त| परिणाम इत्यर्थः, किंविशिष्टानां सतां पारिणामिकं प्रमाणं ? - निश्चयनयमवलम्बमानानां यतः शब्दादिनिश्चयनयानामिद -

Page Navigation
1 ... 443 444 445 446 447 448 449 450 451 452 453 454 455 456