Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीओघ
नियुक्तिः
द्रोणीया वृत्तिः
॥२२६॥
KORORECASSASARAMSAROSANSAAS
तिव्या, एतदुक्तं भवति-मूलगुणोत्तरगुणालोचनया भावशुद्धिर्भवतीति । एवं तावन्मूलगुणोत्तरगुणेषु छलितेनालोचना | विशुद्धिः दातव्या । इदानीं यस्मै आलोचना दीयते तेनाप्यालोचयितव्यमिति, एतदेव प्रदर्शयन्नाह-जातिकुलबलरूपादिषट्त्रिंशद्गुण- नि. ७९३| समन्वितेनाप्यवश्यं परसाक्षिकी शुद्धिः कर्त्तव्या सुष्ठपि ज्ञानक्रियाव्यवहारकुशलेन-सुविहितेनेति । अत्रोदाहरणं दीयते-81 ८०४ यथा कुशलोऽपि वैद्योऽन्यस्मै वैद्याय कथयति आत्मव्याधि, श्रुत्वा च तस्य वैद्यस्य सोऽपि वैद्यो यस्मै कथितं स प्रतिकर्म आरभते । एवं जानताऽपि प्रायश्चित्तविधिमात्मनः सम्यक्करणेन तथाऽपि प्रकटतरमालोचयितव्यमवश्यमिति । किञ्च-सुगमा। 'न हु' नैव शुद्ध्यति सशल्यः पुरुषः, कथं पुनः शुद्ध्यति?, यथा भणितं धुतरजसां शासने तथा शुद्ध्यति, कथं पुनः शुध्यति अत आह-उद्धृतसर्वशल्यो जीवः शुद्ध्यति धुतक्लेश इति, तस्माद्यद्यपि कथमपि किञ्चिदकार्य कृतं तथाऽप्यालोचयितव्यम् । कथं पुनस्तत्कृतं भवतीत्यत आह–'सहसा' अप्रतर्कितमेव प्राणिवधादिकमकार्य यदि कृतं ततस्तस्मात्प्रतिक्रमितव्यमित्येतत् द्वितीयगाथायां वक्ष्यते, अज्ञानेन च कृतं न तत्र प्राणी ज्ञातो व्यापादितश्च, भीतेन-आत्मभयात् मा भूदयं मां मारयिष्यतीत्यतः प्राणव्यपरोपणं यदि कृतं, प्रेरितेन वा परेण यदि कृतं, व्यसनेन वा आपदा यदि कृतं आतङ्केन वाज्वराद्युपसर्गेण यदि कृतं मूढेन वा-रागद्वेषैर्यत्कृतं किञ्चिदकार्य ततः यत्किञ्चित्कृतमकार्य तत्पुनः 'नहु' नैव समाचरितुं
लब्भा-उपलभ्येत यथा तथा प्रतिक्रमितव्यं, एतदुक्तं भवति-किश्चिदकार्यं कृत्वा पुनर्यथा नैव क्रियते तथा तस्य प्रतिहै ऋमितव्यं, न पुनस्तदकार्य हृदयेन वोढव्यं, सर्वमालोचयितव्यमित्यर्थः । कथं पुनस्तदालोचयितव्यमित्यत आह-तस्य सून
च साधोयत्प्रायश्चित्तं मार्गविदो गुरव उपदिशन्ति तत्प्रायश्चित्तं 'तथा' तेनैव विधिनाऽऽचरितव्यं, कथम् ?, अनवस्था
SARSACROSOAD

Page Navigation
1 ... 452 453 454 455 456