Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
है। प्रसङ्गभीतेन सताऽऽलोचयितव्यम् , अनवस्था नाम यद्यकार्यसमाचरणात्प्रायश्चित्तं न दीयते क्रियते वा ततोऽन्योऽपि
एवमेव समाचरति यदुत प्राणिव्यपरोपणादौ न किञ्चित्प्रायश्चित्तं भवति ततश्च समाचरणे न कश्चिद्दोष इति, एवमनव|स्थाप्रसङ्गभीतेन साधुना प्रायश्चित्तं समाचरितव्यमिति । इतश्चालोचयितव्यम्-न तत्करोति दुःखं शस्त्रं नापि विषं नापि 'दुष्पयुक्तः' दुःसाधितो वेतालः यन्त्रं वा दुष्प्रयुक्तं सर्पो वा क्रुद्धः प्रमादिनः पुरुषस्य दुःखं करोति यत्करोति भाव| शल्यमनुवृतम् 'उत्तमार्थकाले' अनशनकाले, किं करोतीत्यत आह-'दुर्लभबोधिकत्वं अनन्तसंसारित्वं चेति, एतन्महादुःखं करोति भावशल्यं अनुवृतं, शस्त्रादिदुःखानि पुनरेकभव एव भवन्ति, अतः संयतेन सर्वमालोचयितव्यम् । तो उद्धरंति गारवरहिता मूलं पुणन्भवलयाणं । मिच्छादसणसल्लं मायासलं नियाणं च ॥ ८०५ ॥ | उद्धरियसवसल्लो आलोइयनिंदिओ गुरुसगासे । होइ अतिरेगलहुओ ओहरियभरो च भारवहो ॥ ८०६ ॥ उद्धरियसबसल्लो भत्तपरिन्नाऍ धणियमाउत्तो। मरणाराहणजुत्तो चंदगवेझं समाणेइ ॥ ८०७॥ आराहणाइ जुत्तो सम्म काऊण सुविहिओ कालं । उक्कोसं तिन्नि भवे गंतण लभेज निवाणं ॥ ८०८॥
तत एवमालोच्य गारवरहिता मुनयः 'उद्धरन्ति' उत्पाटयन्ति मूलं पुनर्भवलतानां येन मिथ्यादर्शनशल्यं मायाशल्यं | निदानशल्यं चोद्धरन्तीति । सुगमा, नवरम्-अतिरेकम्-अत्यर्थ लघुर्भवति, 'ओहरितभारो' उत्तारितभारः 'भारवहः' गर्दभादिः स यथा लघुर्भवति एवमालोचिते सति कर्मलघुत्वं भवतीति । यश्चैवंविधः स उद्धृतसर्वशल्यः 'भत्तपरिणाए' भक्तप्रत्याख्याने 'धनिकम्' अत्यर्थम् 'आयुक्ता' प्रयत्नपरो मरणाराधनयुक्तः, स एवंविधश्चन्द्रकवेधं 'समानयति' करो

Page Navigation
1 ... 453 454 455 456