Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्री ओघनिर्युक्तिः द्रोणीया वृत्तिः
॥२२१॥
हिंसा आत्मैव हिंसा इत्ययं निश्चयनयाभिप्रायः, कुतः ?, यो भवत्यप्रमत्तो जीवः स खल्वहिंसकः, इतरश्च प्रमत्तः, ततश्च स एव हिंसको भवति, तस्मादात्मैवाहिंसा आत्मैव हिंसा अयं निश्चयः - परमार्थ इति । इदानीं प्रकारान्तरेण तथाविधपरिणामविशेषाद् हिंसाविशेषं दर्शयन्नाह -
जो य पओगं जुंजइ हिंसत्थं जो य अन्नभावेणं । अमणो उ जो पउंजइ इत्थ विसेसो महं वुत्तो ॥ ७५५ ॥ हिंसत्थं जुंजतो सुमहं दोसो अनंतरं इयरो । अमणो य अप्पदोसो जोगनिमित्तं च विन्नेओ ।। ७५६ ॥ रत्तो वा दुट्ठो वा मूढो वा जं पउंजह पओगं । हिंसावि तत्थ जायइ तम्हा सो हिंसओ होइ ॥ ७५७ ॥ न य हिंसामित्तेणं सावज्जेणावि हिंसओ होइ । सुद्धस्स उ संपत्ती अफला भणिया जिणवरेहिं ॥ ७५८ ॥ यश्च जीवप्रयोगं मनोवाक्कायकर्मभ्रिहिंसार्थं युनक्ति - प्रयुङ्क्ते यश्चान्यभावेन, एतदुक्तं भवति - लक्ष्यवेधनार्थं काण्डं क्षिप्तं यावताऽन्यस्य मृगादेर्लग्नं, ततश्चान्यभावेन यः प्रयोगं प्रयुङ्क्ते तस्यानन्तरोक्तेन पुरुषविशेषेण सह महान् विशेषः । तथा 'अमनस्कश्च' मनोरहितः - संमूर्च्छज इत्यर्थः, स च यं प्रयोगं कायादिकं प्रयुङ्क्ते, अत्र विशेषो महानुक्तः, एतदुक्तं भवति - यो जीवो मनोवाक्कायैा सार्थ प्रयोगं प्रयुङ्क्ते तस्य महान् कर्मबन्धो भवति, यश्चान्यभावेन प्रयुङ्क्ते तस्याल्पतरः कर्मबन्धः यश्चामनस्कः प्रयोगं प्रयुङ्क्ते तस्याल्पतमः कर्मबन्धः, ततश्चात्र विशेषो महान् दृष्ट इति । एतदेव व्याख्यानयन्नाह - हिंसार्थ प्रयोगं प्रयुञ्जन् सुमहान् दोषो भवति, इतरश्च योऽन्यभावेन प्रयुङ्क्ते तस्य मन्यतरो दोषो भवत्यस्पतर इत्यर्थः, तथा 'अमन| स्कश्च' संमूर्च्छनजः प्रयोगं प्रयुञ्जन् अल्पतरतमदोषो भवति । अतो 'योगनिमित्तं' योगकारणिकः कर्मबन्धो विज्ञेय
आत्महिंसा हिंसे नि. ७५४ज्ञाना दिभिहिंसा यां तारत
म्यं नि.
७५५-७५८
॥२२१॥

Page Navigation
1 ... 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456