Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
विभागोऽसावपि न्यूनः स एवंविधो लवणाकरादिषु यदि स्पर्श प्राप्नोति ततस्तत्काष्ठं सर्व लवणरूपं भवति, तस्मात्स्तोकाऽपि कुशीलसंसर्गिबहुमपि साधुसङ्घातं दूषयति यस्मात्तस्माद्वर्जयेत् कुशीलसंसर्गमिति । तथा,जीवो अणाइनिहणो तब्भावणभाविओ य संसारे । खिप्पं सो भाविज्जइ मेलणदोसाणुभावेणं ॥७७५ ॥ जह नाम महुरसलिलं सागरसलिलं कमेण संपत्तं । पावइ लोणियभावं मेलणदोसाणुभावेणं ॥ ७७६॥ एवं खु सीलमंतो असीलमंतेहि मेलिओ संतो। पावइ गुंणपरिहाणी मेलणदोसाणुभावेणं ॥ ७७७॥
सुगमाः॥ यस्मादेवं तस्मात्, णाणस्स दंसणस्स य चरणस्स य जत्थ होइ उवघातो। वजेजऽवजभीरू अणाययणवजओ खिप्पं ॥७७८॥
ज्ञानस्य दर्शनस्य चारित्रस्य च 'यत्र' अनायतने भवत्युपघातस्तद्वर्जयेदवद्यभीरुः साधुः, किंविशिष्टः-अनायतनं वर्जयतीति अनायतनवर्जकः, स एवंविधः क्षिप्रमनायतनमुपघात इति मत्वा वर्जयेदिति । इदानीं विशेषतोऽनायतनं प्रदर्शयन्नाहजत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया । मूलगुणपडिसेवी, अणायतणं तं वियाणाहि ॥७७९॥ | जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया । उत्तरगुणपडिसेवी, अणायतणं तं वियाणाहि ॥७८० ॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया। लिंगवेसपडिच्छन्ना, अणायतणं तं वियाणाहि ॥ ७८१॥ सुगमा, नवरं-मूलगुणाः प्राणातिपातादयस्तान् प्रतिसेवन्त इति मूलगुणप्रतिसेविनस्ते यत्र निवसन्ति तदनायतन

Page Navigation
1 ... 447 448 449 450 451 452 453 454 455 456