SearchBrowseAboutContactDonate
Page Preview
Page 449
Loading...
Download File
Download File
Page Text
________________ विभागोऽसावपि न्यूनः स एवंविधो लवणाकरादिषु यदि स्पर्श प्राप्नोति ततस्तत्काष्ठं सर्व लवणरूपं भवति, तस्मात्स्तोकाऽपि कुशीलसंसर्गिबहुमपि साधुसङ्घातं दूषयति यस्मात्तस्माद्वर्जयेत् कुशीलसंसर्गमिति । तथा,जीवो अणाइनिहणो तब्भावणभाविओ य संसारे । खिप्पं सो भाविज्जइ मेलणदोसाणुभावेणं ॥७७५ ॥ जह नाम महुरसलिलं सागरसलिलं कमेण संपत्तं । पावइ लोणियभावं मेलणदोसाणुभावेणं ॥ ७७६॥ एवं खु सीलमंतो असीलमंतेहि मेलिओ संतो। पावइ गुंणपरिहाणी मेलणदोसाणुभावेणं ॥ ७७७॥ सुगमाः॥ यस्मादेवं तस्मात्, णाणस्स दंसणस्स य चरणस्स य जत्थ होइ उवघातो। वजेजऽवजभीरू अणाययणवजओ खिप्पं ॥७७८॥ ज्ञानस्य दर्शनस्य चारित्रस्य च 'यत्र' अनायतने भवत्युपघातस्तद्वर्जयेदवद्यभीरुः साधुः, किंविशिष्टः-अनायतनं वर्जयतीति अनायतनवर्जकः, स एवंविधः क्षिप्रमनायतनमुपघात इति मत्वा वर्जयेदिति । इदानीं विशेषतोऽनायतनं प्रदर्शयन्नाहजत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया । मूलगुणपडिसेवी, अणायतणं तं वियाणाहि ॥७७९॥ | जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया । उत्तरगुणपडिसेवी, अणायतणं तं वियाणाहि ॥७८० ॥ जत्थ साहम्मिया बहवे, भिन्नचित्ता अणारिया। लिंगवेसपडिच्छन्ना, अणायतणं तं वियाणाहि ॥ ७८१॥ सुगमा, नवरं-मूलगुणाः प्राणातिपातादयस्तान् प्रतिसेवन्त इति मूलगुणप्रतिसेविनस्ते यत्र निवसन्ति तदनायतन
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy