Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
**
वक्ष्यति च, उत्तरगुणविषया च प्रतिसेवना भवति त्रिकादिका, तच्चेदं त्रिकम्-उद्गम उत्पादना एषणा च, एतदेव त्रिक
मादिर्यस्या उत्तरगुणप्रतिसेवनायाः सा तथाविधा, आदिग्रहणात्समितयो भावना तपो द्विविधमित्येवमादीनि गृह्यन्ते । द इदानी मूलगुणान् व्याख्यानयनाह| हिंसालियचोरिके मेहुन्नपरिग्गहे य निसिभत्ते । इय छहाणा मूले उग्गमदोसा य इयरंमि ॥ ७८७॥ | हिंसाऽलीकं चौर्य मैथुनं परिग्रहः तथा निशिभक्तं चेति, एवं षट्स्थाना मूलगुणप्रतिसेवना द्रष्टव्या, उद्गमदोषादिका चेतरा उत्तरगुणप्रतिसेवना द्रष्टव्या आदिग्रहणादुत्पादनैषणादयः परिगृह्यन्ते । इदानी प्रतिसेवनाया एष एकाथिकानां प्रतिपादनायाहपडिसेवणा मइलणा भंगो य विराहणा य खलणा य । उवधाओ य असोही सवलीकरणं च एगट्ठा॥७८८॥ __ प्रतिसेवणा मइलणा भङ्गो विराधना खलना उपघातः अशोधिः शबलीकरणं चेत्येकार्थिकाः शब्दा इति । उक्तं प्रति-18 सेवनाद्वारम् , इदानीमालोचनाद्वारसंबन्धप्रतिपादनायाह
छट्ठाणा तिगठाणा एगतरे दोसु वावि छलिएणं । कायवा उ विसोही सुद्धा दुक्खक्खयहाए ॥ ७८९ ॥ _ 'षट्स्थाने' प्राणातिपातादिकें उद्गमादिके च त्रिके, अमयोरकतरे द्वयोर्वा 'छलितेन' स्खलितेन सता साधुना कर्त्तव्या विशुद्धिः, किंविशिष्टा ?-'शुद्धा' निष्कलङ्का दुःखक्षयार्थ कर्तव्येति । सा च विशुद्धिरालोचनापूर्विका भवतीतिकृत्वाऽsलोचनां प्रतिपादयन्नाह
%AA-256*5***

Page Navigation
1 ... 449 450 451 452 453 454 455 456