Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 446
________________ श्रीओघद्रोणीया वृत्तिः ॥२२२॥ मेव दर्शनं, यदुत-पारिणामिकमिच्छन्तीति । आह-यद्ययं निश्चयस्ततोऽयमेवावलम्ब्यतां किमन्येनेति !, उच्यते- यतनयानिनिश्चयमवलम्बमानाः पुरुषा 'निश्चयतः' परमार्थतो निश्चयमजानानाः सन्तो नाशयन्ति चरणकरणं, कथं ?-'बाह्यकर- Iजरा निश्चणालसाः' बाह्य-वैयावृत्त्यादि करणं तत्र अलसाः-प्रयत्नरहिताः सन्तश्चरणकरणं नाशयन्ति, केचिदिदं चाङ्गीकुर्वन्ति यव्यवहारी यदुत परिशुद्धपरिणाम एव प्रधानो नतु बाह्यक्रिया, एतच्च नाङ्गीकर्त्तव्यं, यतः परिणाम एव बाह्यक्रियारहितः शुद्धो न |नि.७५९भवतीति, ततश्च निश्चयव्यवहारमतमुभयरूपमेवाङ्गीकर्तव्यमिति । उक्तमुपधिद्वारम् , इदानीमायतनद्वारव्याचिख्यासया 5७६१ आय |तनेतरेनि. |संबन्धं प्रतिपादयन्नाह ७६२-७६३ एवमिणं उवगरणं धारेमाणो विहीसुपरिसुद्धं । हवति गुणाणायतणं अविहि असुद्धे अणाययणं ॥७६२॥ "एवम् उक्तन्यायेन उपकरणं धारयन् विधिना 'परिशुद्धं' सर्वदोषवर्जितं, किं भवति ?-गुणानामायतनं-स्थानं भवति । अथ पूर्वोक्तविपरीतं क्रियते यदुताविधिना धारयति अविशुद्धं च तदुपकरणं, ततोऽविधिनाशुद्धं ध्रियमाणं तदेवोपकरणम् 'अनायतनम्' अस्थानं भवतीति । इदानीमनायतनस्यैव पर्यायशब्दान् प्रतिपादयन्नाह सावजमणायतणं असोहिठाणं कुसीलसंसग्गी । एगट्ठा होति पदा एते विवरीय आययणा ॥ ७६३ ॥ सावद्यमनायतनमशोधिस्थानं कुसीलसंसग्गी, एतान्येकार्थिकानि पदानि भवन्ति, एतान्येव च विपरीतानि आयतने ॥२२२॥ भवन्ति, कथम् ?-असावद्यमायतनं शोधिस्थानं सुसीलसंसग्गीति । अत्र चानायतनं वर्जयित्वाऽऽयतनं गवेषणीयम् , एतदेवाह

Loading...

Page Navigation
1 ... 444 445 446 447 448 449 450 451 452 453 454 455 456