Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 435
________________ - संथारुत्तरपट्टो अड्डाइजा य आयया हत्था । दोहंपि य वित्थारो हत्थो चउरंगुलं चेव ॥७२३॥ संस्तारकस्तथोत्तरपट्टकश्च, एतौ द्वावप्येकैकोऽर्द्धतृतीयहस्तौ दैर्येण प्रमाणतो भवति, तथा द्वयोरप्यनयोर्विस्तारो हस्तश्चत्वारि चाडलानि भवतीति । आह-किं पुनरेभिः प्रयोजनं संस्तारकादिभिः पट्टकैः ?, उच्यतेपाणादिरेणुसारक्खणट्ठया होति पट्टगा चउरो । छप्पइयरक्खणट्ठा तत्थुवरि खोमियं कुजा ॥७२४॥ प्राणिरेणुसंरक्षणार्थं पट्टका गृह्यन्ते, प्राणिनः-पृथिव्यादयः रेणुश्च-स्वपतः शरीरे लगति अतस्तद्रक्षणार्थ पट्टकग्रहणं, ते चत्वारो भवन्ति, द्वौ संस्तारकोत्तरपट्टकावुक्तावेव, तृतीयो रजोहरणबाह्यनिषद्यापटकः पूर्वोक्त एव, चतुर्थः क्षौमिक एवाभ्यन्तरनिषद्यापट्टको वक्ष्यमाणकः, एते चत्वारोऽपि प्राणिसंरक्षणार्थं गृह्यन्ते, तत्र षट्पदीरक्षणार्थं तस्य कम्बलीसंस्ताहारकस्योपरि खोमियं-संस्तारके पट्टकं कुर्याद् येन शरीरकम्बलीमयसंस्तारकसंघर्षेण न षट्पद्यो विराध्यन्त इति । इदानीमभ्य-12 न्तरक्षौमनिषद्याप्रमाणप्रतिपादनायाहरयहरणपट्टमेत्ता अदसागा किंचि वा समतिरेगा। एकगुणा उ निसेज्जा हत्थपमाणा सपच्छागा ॥७२५॥ | सरजोहरणपट्टकोऽभिधीयते यत्र दशिका लग्नाः तत्प्रमाणा 'अदशा' दशिकारहिता क्षौमा रजोहरणाभ्यन्तरनिषद्या भवति, किंचि वा समतिरेग'त्ति किञ्चिन्मात्रेण वा समधिका तस्य रजोहरणपट्टकस्य भवतीति, 'एकगुण'त्ति एकैव सा निषद्या भवतीति, हस्तप्रमाणा च पृथुत्वेन भवति, 'सपच्छाग'त्ति सह बाह्यया हस्तप्रमाणया भवतीति, एतदुक्तं भवतिबाह्याऽपि निषद्या हस्तमात्रैव ।

Loading...

Page Navigation
1 ... 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456