Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 439
________________ दुष्टाश्च ते पशवश्च श्वानश्च श्वापदाश्च तेषां संरक्षणार्थं यष्टिर्गृह्यते, तथा 'चिक्खल:' सकर्दमः प्रदेशः तथा विषमेषु रक्षणार्थ, तथोदकमध्येषु च रक्षणार्थं यष्टिग्रहणं क्रियते, तथा तपसः संयमस्य च साधिका यष्टिर्भणितेति । कथं तपःसंयमसाधिका ? इत्यत आह मोक्खट्टा नाणाई तणू तयट्ठा तयडिया लट्ठी । दिट्ठो जहोवयारो कारणतक्कारणेसु तहा ॥ ७४० ॥ मोक्षार्थं ज्ञानादीनि इष्यन्ते, ज्ञानादीनां चार्थाय तनुः-शरीरमिष्यते, तदर्था च यष्टिः शरीरार्थेत्यर्थः शरीरं यतः यष्ट्याद्युपकरणेन प्रतिपाल्यते, अत्र च कारणतत्कारणेषूपचारो दृष्टो यथा घृतं वर्षति अन्तरिक्षमिति, एवं मोक्षस्य ज्ञानादीनि कारणानि ज्ञानादीनां च तनुः कारणं शरीरस्य च यष्टिरिति । किञ्च न केवलं ज्ञानादीनां यष्टिरुपकरणं वर्त्तते, अन्यदपि यज्ज्ञानादीनामुपकरोति तदेवोपकरणमुच्यते, एतदेवाह - जं जुज्जइ उवकरणे. उवगरणं तं सि होइ उवगरणं । अतिरेगं अहिगरणं अजतो अजयं परिहरंतो ॥ ७४१ ॥ यदुपकरणं पात्रकादि उपकारे ज्ञानादीनामुपयुज्यते तदेवोपकरणं 'से' तस्य साधोर्भवति, यत्पुनरतिरेकं - ज्ञानादीनामुपकारे न भवति तत्सर्वमधिकरणं भवति, किंविशिष्टस्य सतः ? - 'अयतः' अयलवान् 'अयतं' अयतनया 'परिहरन् ' | प्रतिसेवमानस्तदुपकरणं भवतीति, 'परिहरंतो' त्ति इयं सामयिकी परिभाषा प्रतिसेवनार्थे वर्त्तत इति । किञ्च - उग्गमउपायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, पगासपडिलेहणं ॥ ७४२ ॥ उग्गमउपायणासुद्धं, एसणादोसवज्जियं । उवहिं धारए भिक्खू, जोगाणं साहणट्टया ॥ ७४३ ॥

Loading...

Page Navigation
1 ... 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456