Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
विधिरित्यत आह-'धूवलम्भे'ध्रुवे-अवश्यम्भाविनि प्रायोग्यलाभे सत्ययं विधिः, 'सेस उभयपित्ति शेषा-येऽन्ये सङ्घाटकास्ते आत्मार्थमुभयमपि-भक्तं पानकं च गृह्णन्ति, एकः पानकमेकस्मिन् प्रतिग्रहके गृह्णाति द्वितीयस्तु भक्तं गृह्णाति, एवं | सर्वेऽपि सङ्घाटका भिक्षामटन्तीति, ततश्चैवं मात्रकग्रहणं न संजातमिति । अथ ध्रुवलम्भः प्रायोग्यस्य न तस्मिन् क्षेत्रे ततः को विधिरित्यत आह
असई लाभे पुण मत्तए य सवे गुरूण गेण्हति । एसेव कमोनियमागिलाणसेहाइएसुंपि॥१८॥ असति लम्भे पुनः प्रायोग्यस्य सर्व एव सङ्घाटका मात्रकेषु गुरोः प्रायोग्यं गृह्णन्ति, यतो न ज्ञायते कः किंचिल्लप्स्यते आहोश्चिन्नेत्यतो गृह्णन्ति, एष एव क्रमो 'नियमात्' नियमत एव ग्लानशिष्यकादिष्वपीति । अथवा* दुल्लभदषं व सिया घयाइ तं मत्तएसु गेण्हंति । लद्धेवि उ पज्जत्ते असंथरे सेसगढाए ॥ ७१९॥
दुर्लभं वा द्रयं स्याद् घृतादि तन्मात्रकेषु गृह्णन्ति । तथा लब्धेऽपि भक्ते पर्याप्त आत्मार्थ तथाऽपि यदि न संस्तरतिन सरति ग्लानवृद्धादीनां, ततोऽसंस्तरणे सति ग्लानवृद्धादिशेषार्थ तावत्पर्यटन्ति यावत्पर्याप्तं भक्तं ग्लानादीनां भवतीति । अथवाऽनेन प्रकारेण मात्रकग्रहणं संभवति
संसत्तभत्तपाणेसु वावि देसेसु मत्तए गहणं । पुर्व तु भत्तपाणं सोहेउ छुहंति इयरेसु ॥ ७२० ॥ 'यत्र प्रदेशेषु स्वभावेनैव संसक्तभक्तपानं सम्भाव्यते, तेषु संसक्तभक्तपानेषु देशेषु सत्सु प्रथम मात्रके ग्रहणं क्रियते,

Page Navigation
1 ... 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456