SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ विधिरित्यत आह-'धूवलम्भे'ध्रुवे-अवश्यम्भाविनि प्रायोग्यलाभे सत्ययं विधिः, 'सेस उभयपित्ति शेषा-येऽन्ये सङ्घाटकास्ते आत्मार्थमुभयमपि-भक्तं पानकं च गृह्णन्ति, एकः पानकमेकस्मिन् प्रतिग्रहके गृह्णाति द्वितीयस्तु भक्तं गृह्णाति, एवं | सर्वेऽपि सङ्घाटका भिक्षामटन्तीति, ततश्चैवं मात्रकग्रहणं न संजातमिति । अथ ध्रुवलम्भः प्रायोग्यस्य न तस्मिन् क्षेत्रे ततः को विधिरित्यत आह असई लाभे पुण मत्तए य सवे गुरूण गेण्हति । एसेव कमोनियमागिलाणसेहाइएसुंपि॥१८॥ असति लम्भे पुनः प्रायोग्यस्य सर्व एव सङ्घाटका मात्रकेषु गुरोः प्रायोग्यं गृह्णन्ति, यतो न ज्ञायते कः किंचिल्लप्स्यते आहोश्चिन्नेत्यतो गृह्णन्ति, एष एव क्रमो 'नियमात्' नियमत एव ग्लानशिष्यकादिष्वपीति । अथवा* दुल्लभदषं व सिया घयाइ तं मत्तएसु गेण्हंति । लद्धेवि उ पज्जत्ते असंथरे सेसगढाए ॥ ७१९॥ दुर्लभं वा द्रयं स्याद् घृतादि तन्मात्रकेषु गृह्णन्ति । तथा लब्धेऽपि भक्ते पर्याप्त आत्मार्थ तथाऽपि यदि न संस्तरतिन सरति ग्लानवृद्धादीनां, ततोऽसंस्तरणे सति ग्लानवृद्धादिशेषार्थ तावत्पर्यटन्ति यावत्पर्याप्तं भक्तं ग्लानादीनां भवतीति । अथवाऽनेन प्रकारेण मात्रकग्रहणं संभवति संसत्तभत्तपाणेसु वावि देसेसु मत्तए गहणं । पुर्व तु भत्तपाणं सोहेउ छुहंति इयरेसु ॥ ७२० ॥ 'यत्र प्रदेशेषु स्वभावेनैव संसक्तभक्तपानं सम्भाव्यते, तेषु संसक्तभक्तपानेषु देशेषु सत्सु प्रथम मात्रके ग्रहणं क्रियते,
SR No.600353
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami
AuthorPurvacharya, Dronacharya,
PublisherAgamoday Samiti
Publication Year1919
Total Pages456
LanguageSanskrit
ClassificationManuscript & agam_oghniryukti
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy