Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
तथा कर्त्तव्यं, त्र्यसं कोणद्वये गृहीत्वा यथा कृकाटिकायां ग्रन्धिर्दातुं शक्यते तथा कर्त्तव्यमिति, एतद्वितीयं प्रमाणं, गणणाप्रमाणेन पुनस्तदेकैकमेव मुखानन्तकं भवतीति । इदानीं तत्प्रयोजनप्रतिपादनायाह
संपातिमरयरेणूपमज्जणट्ठा वयंति मुहपतिं । नासं मुहं च बंधइ तीए वसहिं पमजतो ॥ ७१२॥ ___ संपातिमसत्त्वरक्षणार्थ जल्पद्भिर्मुखे दीयते, तथा रजः-सचित्तपृथिवीकायस्तत्प्रमार्जनार्थं मुखवस्त्रिका गृह्यते, तथा
रेणुप्रमार्जनार्थ मुखवस्त्रिकाग्रहणं प्रतिपादयन्ति पूर्वर्षयः । तथा नासिकामुखं बध्नाति तया मुखवस्त्रिकया वसतिं प्रमार्जदयन् येन न मुखादौ रजः प्रविशतीति । इदानी मात्रकप्रमाणप्रतिपादनायाह
| जो मागहओ पत्थो सविसेसतरं तु मत्तयपमाणं । दोसुवि दवग्गहणं वासावासासु अहिगारो ॥७१३ ॥ | यो मागधिकः प्रस्थस्तत्सविशेषतरं मात्रकं भवति, स च मागधिकप्रस्थः दो असईओ पसई दो पसतिओ सेतिया चउसेइयाहिं मागहो पत्थे सो जारिसो पमाणेण तारिस सविसेसतरं मत्तयं हवति । तेन किं प्रयोजनमित्यत आह-'दोसुवि' द्वयोरपि वर्षावर्षयोः-वर्षाकालऋतुबद्धकालयोर्यदाचार्यादिप्रायोग्यद्रव्यग्रहणं क्रियते अयमधिकारस्तस्य मात्रकस्येति, इदं प्रयोजनमित्यर्थः । अथवेदमन्यत्प्रमाणमुच्यते
सूवोदणस्स भरि दुगाउअद्धाणमागओ साहू । मुंजइ एगट्ठाणे एयं किर मत्तयपमाणं ॥७१४॥ सूपस्य च ओदनस्य च भृतं द्विगव्यूताध्वानादागतः साधु ते यदेकस्मिन् स्थाने तदेतत् किल मात्रकस्य द्वितीयं प्रमाणमुक्तं । आह-कस्मादुक्तप्रमाणाल्लघुतरं न क्रियते ?, उच्यते, लघुतरे दोषा भवन्ति

Page Navigation
1 ... 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456