Book Title: Ogh Niryukti
Author(s): Bhadrabahuswami, Purvacharya, Dronacharya,
Publisher: Agamoday Samiti
View full book text
________________
श्रीओघनियुक्तिः द्रोणीया वृत्तिः
पटलरजस्त्राणकल्प प्रमाणप्रयो जने नि. ७०१-७०६
।।२१३॥
'मान' प्रमाणं रजस्त्राणस्य 'भाजनप्रमाणेन' पात्रकमानेन भवति, एतदुक्तं भवति-पात्रकानुरूपं रजस्त्राणं भवति, तच्च रजस्त्राणं पात्रकस्य कथं दीयते ? अत आह-प्रदक्षिणां कुर्वाणं सत्तिर्यग् दीयते, 'मध्ये' पृथुत्वेन चत्वार्यङ्कलानि 'क्रामति' गच्छति प्रदक्षिणां कुर्वाणमिति । इदानीमस्यैव प्रयोजनप्रतिपादनायाह__ मूसयरजउक्केरे वासे सिण्हा रए य रक्खट्ठा । होति गुणा रयताणे पादे पादे य एकेकं ॥७०४ ॥
तच्च रजस्त्राणं दीयते मूषिकरजउत्केरसंरक्षणार्थ, वर्षोदकसंरक्षणार्थ, सिहा-अवश्यायस्तत्संरक्षणार्थ, भवन्ति गुणा रजस्त्राणस्यैते, तच्च पात्रे पात्रे चैकैकं भवतीति । इदानीं कल्पप्रमाणप्रमाणप्रतिपादनायाहकप्पा आयपमाणा अट्ठाइज्जा उ वित्थडा हत्था। दो चेव सोत्तियानिओ य तइओ मुणेयवो ॥७०५॥ |
कल्पा आत्मप्रमाणाः, एतदुक्तं भवति-यावन्मात्राः प्रावृताः स्कन्धस्योपरि प्रक्षिप्तास्तिष्ठन्ति एतावदात्मप्रमाणमर्द्धत-| |तीयांस्तु विस्तृता हस्तान् , तत्र द्वौ सूत्रिकौ भवतः ऊर्णिकश्च तृतीयो विज्ञेयः । इदानीं तत्प्रयोजनप्रतिपादनायाह
तणगहणानलसेवा निवारणा धम्मसुक्कझाणहा । दिदं कप्परगहणं गिलाणमरणट्ठया चेव ॥७०६॥ तृणग्रहणनिवारणार्थ गृह्यन्ते, अनल:-अग्निस्तत्सेवानिवारणार्थ च, एतदुक्तं भवति-कल्पाग्रहणे तृणग्रहणमग्निसेवनं च भवति, तन्निवारणार्थ कल्पग्रहणं क्रियते, तथा धर्मशुक्लध्यानार्थ कल्पग्रहणं भवति, एतदुक्तं भवति-शीतादिना बाध्यमानो धर्मशुक्ले ध्याने ध्यातुमसमर्थो भवति यदि कल्पान्न गृह्णाति, अत एवमर्थ दृष्टं कल्पग्रहणं, तथा ग्लानसंरक्षणार्थ मरणार्थ मृतस्योपरि दीयते कल्पः एतदर्थं च ग्रहणमिति । इदानीं रजोहरणस्वरूपप्रतिपादनायाह
॥२१३॥

Page Navigation
1 ... 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456